अथवा तुलसूसेवा शिवलिङ्गप्रपूजनम्
सर्वपाप हरं कर्म ध्वजागोपणसंज्ञितम्
तानि सर्वाणि वक्ष्यामि शृणुष्व गदतो मम
स्नानं कुर्यात्प्रयत्नेन दन्तधावनपूर्वकम्
धौताम्बरधरः शुद्धो विप्रो नारायणाग्रतः
नित्यकर्माणि निर्वर्त्य पश्चाद्विष्णुं समर्चयेत्
नान्दीश्राद्धं प्रकुर्वीत ध्वजारोपणकर्मणि
सूर्यं च वैनतेयं च हिमांशुं तत्परोर्ऽचयेत्
हरिद्राक्षघतगन्धाद्यैः शुक्लपुष्पैर्विशेषतः
आधायान्गिं स्वगृह्योत्त्या ह्याज्यभागादिकं क्रमात्
प्रथमं पौरुषं सूक्तं विष्णोर्नुकमिरावतीम्
सोमो धेनुमुदुत्यं च जुहुयाच्च ततो द्विज
रात्रघौ जागरणं कुर्यादुपकण्ठं हरेः शुचुः
गन्धपुष्पादिभिर्देवमर्चयेत्पूर्ववत्क्रमात्
नृत्यैश्च रतोत्रघपठनैर्नयेद्विष्णवालये ध्वजम्
सुस्थुरः स्थापयेद्विप्र ध्वजं सस्तम्भसंयुतम्
भक्षघ्यभोज्यादिसंयुक्तैर्नैवेद्यैश्च हरिं यजेत्
प्रदक्षघिणमनुव्रज्य स्तोत्रघमेतदुदूरयेत्
नमस्ते ऽस्तु हृषीकेश महापुरुष पूर्वज
लयमेष्यति यत्रैवं तं प्रपन्नो ऽस्मि केशवम्
योगिनोयं न पश्यन्ति तं वन्दं ज्ञानरुपुणम्
पादो ऽभूद्यस्य पृथिवी तं वन्दे विश्वरुपिणम्
ऋक्सामयजुपी येन तं वन्दे ब्रह्ररुपिणम्
वैश्या यस्यो रुतो जाताः पद्भघ्यां शूद्रो व्यजायत
स्वभावविमलं शुद्धं निर्विकारं निरञ्जनम्
सद्भक्तवत्सलं विष्णुं भक्तिगम्यं नमाम्यहम्
सूक्ष्मासूक्ष्याणि येनासंस्तं वन्दे सर्वतोमुखम्
निर्गुणं परमं सूक्ष्मं प्रणतो ऽस्ति पुनः पुनः
यमामनन्ति योगान्द्राः सर्वकारणकारणम्
निर्गुणः परमात्मा च स मे विष्णुः प्रसीदतु