तिष्टन्पूर्वमुखो भूत्वा पश्यन्निन्दुं च नारद
रोहिणीपतये तुभ्यं लक्ष्मीभ्रात्रे नमो ऽस्तु ते
जितेन्द्रियश्च संशुद्धः पाषण्डालोकवर्जितः
पुनः संपूजयेद्देवं यथाविभवविस्तरम्
बन्धुभृत्यादिभिः सार्धं स्वयं भुञ्जीत वाग्यतः
अर्चयेद्भक्तिसंयुक्तो नारायणमनायमम्
उद्यापनं प्रकुर्वीत तद्विधानं वदामि ते
शोभितं पुष्पमालाभिर्वितानध्वजराजितम्
दर्पंणैश्चामरैश्चैव कलशैश्च समावृतम्
जलपूर्णं ततः कुम्भं न्यसेत्तस्योपरि द्विज
लक्ष्मीनारायणं देवं कृत्वा तस्योपरि न्यसेत्
भक्ष्मैर्भोज्यादिनैवेद्यैर्भक्तितः संयतेन्द्रियः
परे ऽह्नि प्रातर्विधिव त्पूर्ववद्विष्णुमर्चयेत्
ब्राह्मणान्भोजयेच्छक्त्या विभवे सत्यवारितम्
कुर्याद्रन्गौ च विधिवतिलहोमं विचक्षिणः
इह भुक्त्वा महाभोगान्पुत्रघपौत्रघसमन्वितः
प्रयाति विष्णुभवनं योगिनामपि दुर्लभम्
सर्वपापहरं पुण्यं विष्णुप्रीणनकारणम्
संपूज्यते विग्निञ्च्याद्यैः किमन्यैर्बहुभाषितैः
तत्फलं तुल्यमात्रं स्याद्धूजारोपणकर्मणः
अथवा तुलसूसेवा शिवलिङ्गप्रपूजनम्
सर्वपाप हरं कर्म ध्वजागोपणसंज्ञितम्
तानि सर्वाणि वक्ष्यामि शृणुष्व गदतो मम
स्नानं कुर्यात्प्रयत्नेन दन्तधावनपूर्वकम्
धौताम्बरधरः शुद्धो विप्रो नारायणाग्रतः
नित्यकर्माणि निर्वर्त्य पश्चाद्विष्णुं समर्चयेत्
नान्दीश्राद्धं प्रकुर्वीत ध्वजारोपणकर्मणि
सूर्यं च वैनतेयं च हिमांशुं तत्परोर्ऽचयेत्
हरिद्राक्षघतगन्धाद्यैः शुक्लपुष्पैर्विशेषतः
आधायान्गिं स्वगृह्योत्त्या ह्याज्यभागादिकं क्रमात्