प्रतिमां दक्षिणायुक्तामाचार्याय निवेदयेत्
भुञ्जीत वाग्यतः पश्चात्स्वयं बेवृजनैर्वृतः
इत्येवं कुरुते यस्तु मनुजो द्वादशीव्रतम्
तपाति विष्णुभवनं यत्र यत्त्वा न शोचति
वाचयेद्वापि स नरो वाजपेयफलं लभेत्
सर्वपापहरं पुण्यं सर्वदुःखनिबर्हणम्
समस्तकामफलदं सर्वव्रतम्यफलप्रदम्
येन चीर्णेन पापानां राशिकोटिःर प्रशाम्यति
स्नानं कुर्याद्यथाचारं दन्तधावनपूर्वकम्
प्रक्षाल्य पादावाचम्य स्मरत्रारायणं प्रभुम्
लक्ष्मी नारायणं देवमर्चयेद्भक्तिभावतः
नमो नारायणायेति पूजयेद्भक्तितत्परः
स्तोत्रैर्वाराधयेद्देवं व्रतकृत्सुसमाहितः
चरणा च तिलैश्वापि घृतेन जुहुयात्तथा
होमं कुर्यात्प्रयत्नेन सर्वपापनिवृत्तये
समाप्य होमं विधिवच्छान्तिसूक्तं जपेद्रुधः
तथोपवासं देवाय ह्यर्पयेद्भक्तिसंयुतः
भोक्ष्यामि पुण्डरीकाक्ष परे ऽह्लि शरणं भव
जानुभ्यामवनीं गगत्वा शुक्लपुष्पाक्षतान्वितः
एवमर्घ्यं प्रदायेन्दोः प्रार्थयेत्प्राञ्जलिस्ततः
तिष्टन्पूर्वमुखो भूत्वा पश्यन्निन्दुं च नारद
रोहिणीपतये तुभ्यं लक्ष्मीभ्रात्रे नमो ऽस्तु ते
जितेन्द्रियश्च संशुद्धः पाषण्डालोकवर्जितः
पुनः संपूजयेद्देवं यथाविभवविस्तरम्
बन्धुभृत्यादिभिः सार्धं स्वयं भुञ्जीत वाग्यतः
अर्चयेद्भक्तिसंयुक्तो नारायणमनायमम्
उद्यापनं प्रकुर्वीत तद्विधानं वदामि ते
शोभितं पुष्पमालाभिर्वितानध्वजराजितम्
दर्पंणैश्चामरैश्चैव कलशैश्च समावृतम्
जलपूर्णं ततः कुम्भं न्यसेत्तस्योपरि द्विज