शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः
घण्टाचामरसंयुक्तं किङ्किणीरवशोभितम्
छादितं शुक्लवस्त्रेण दीपमालाविभूषितम्
तस्योपरिन्यसेत्कुम्भान्द्वादशाम्बुप्रपूरितान्
सर्वानाच्छादयेत्कुम्भान्पञ्चरत्नसमन्वितान्
हेन्मा वा राजतेनापि तथा ताम्रेण वा द्विजा
तन्मूल्यं वा द्विजश्रेष्ठ काञ्चनं च स्वशक्तितः
यदि कुर्यात्क्षयं यान्ति तस्यायुर्द्धनसंपदः
पञ्चामृतेन प्रथमं स्नापयेद्भक्तिसंयुतः
रात्रौ जागरणं कुर्यात्पुराणश्रवणादिभघिः
त्रिकालमर्चयेद्देवं यथाविभवविस्तरम्
तिलहोमान्व्याहृतिभिः सहस्रंर काव्येद्द्विजैः
देवस्य पुरतः कुर्यात्पुराणश्रवणं ततः
अपूपैर्दश भिर्युक्तं सघृतं च सदक्षिणम्
गृहाणोपायनं कृष्ण सर्वाभीष्टप्रदो भव
आधाय जानुनी भूमौ विनयावननतो व्रती
कुरुष्व संपृर्णफलं ममाद्य नमो ऽस्तु तुभ्यं पुरुषोत्तमाय
दद्यादर्घ्यं च देवाय महालक्ष्मीयुताय वै
अर्घ्यं गृहाण देवेश लक्ष्म्या च सहितः प्रक्षो
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम्
प्रतिमां दक्षिणायुक्तामाचार्याय निवेदयेत्
भुञ्जीत वाग्यतः पश्चात्स्वयं बेवृजनैर्वृतः
इत्येवं कुरुते यस्तु मनुजो द्वादशीव्रतम्
तपाति विष्णुभवनं यत्र यत्त्वा न शोचति
वाचयेद्वापि स नरो वाजपेयफलं लभेत्
सर्वपापहरं पुण्यं सर्वदुःखनिबर्हणम्
समस्तकामफलदं सर्वव्रतम्यफलप्रदम्
येन चीर्णेन पापानां राशिकोटिःर प्रशाम्यति
स्नानं कुर्याद्यथाचारं दन्तधावनपूर्वकम्
प्रक्षाल्य पादावाचम्य स्मरत्रारायणं प्रभुम्