हुत्वा च जागरं कुर्याद्वामनं चार्चयेत्पुनः
भक्त्या प्रदद्याद्विप्राय वामनार्चनशीलिने
वामनस्तारको ऽस्माच्च वामनाय नमो नमः
कृत्वै वमग्रिष्टोमानां शतस्य फलमाप्नुयात्
क्षीरेण मधुमिश्रेण स्नापयेच्छ्रीधरं व्रती
जुहुयात्पृषदाज्येन शतमष्टोत्तरं मुने
दातव्यं चैव विप्राय क्षीराढकमनुत्तमम्
मन्त्रेणानेन विप्रेन्द्रु सर्वकामाश्रसिद्धये
क्षीरदानेन सुप्रीतो भव सर्वसुखप्रदः
एव कृत्वा श्वमेधानां सहस्रस्य फलं लभेत्
स्नापयेद्द्रोणपयसा हृषीकेशं जगद्गुरुम्
चरुणा मधुयुक्तेन शतमष्टोत्तरं हुनेत्
सार्धाढकं च गोधूमान्दक्षिणां हेम शक्तितः
मह्यं सर्वसुखं देहि गोधूमस्य प्रदानतः
सर्वपापविनिर्मुक्तो ब्रह्ममेधफलं लभेत्
पद्मनाभं चपयसा स्नापयेद्भक्तितः शुचिः
तिलब्रीहियवाज्यैश्च पूजयेच्च विधानतः
दद्याद्विप्राय कुडवं मधुनस्तु सदक्षिणम्
मधुदानेन सुप्रीतो भवसर्वसुखप्रदः
ब्रह्ममेधसहस्रस्य फलमान्पोति निश्चितम्
क्षीरेणाकढकमानेन दन्धा वाज्येन तावता
अष्टोत्तरशतं हुत्वा मघ्वाज्याक्ततिलाहुतीः
प्रातः संपूजयेद्देवं पद्मपुष्पैर्मनोरमैः
पञ्चभक्ष्ययुतं चान्नं दद्याद्विप्राय भक्तितः
त्राहिमां कृपया देव शारणागतपालकः
दक्षिणाञ्च यथाशक्त्या ब्राह्मणांश्वापि भोजयेत्
अश्वमेघ सहस्राणां द्विगुणं फलमश्नुते
संवत्सरं मुनिश्रेष्ठ स याति परम पदम्
तत्तत्फलमवान्पोति प्रान्पोति च हरेः पदम्
मार्गशीर्षासिते पक्षे द्वादश्यां च मुनीश्वर