पूर्वमानेन पयसा गोविन्दं स्नापयेच्छुचिः
प्रातः कृत्यं समाप्याथ गोविन्दं पूजयेत्पुनः
नमो गोविन्द सर्वेश गोपिकाजनवल्लभ
एवं कृत्वा व्रतं सम्यक् सर्वपापविवर्जितः
चैत्रमासे सिते पक्षे द्वादश्यां समुपोषितः
क्षीरेण स्नापयेद्विष्णुं पूर्वमानेन शक्तितः
कृत्वा जागरणं रात्रौ पूजयेत्पूर्ववद्रूती
अष्टोत्तरशतं हुत्वा मधअवाज्यतिलमिश्रितम्
प्राणरुपी महाविष्णुः प्राणदः सर्ववल्लभः
एवं कृत्वा नरो भक्त्या सर्वपापविवर्जितः
वैशाखशुक्लद्वादश्यामुपोष्य मधुसूदनम्
जागरं तत्रघ कर्त्तव्यं त्रिकालार्चनसंयुतम्
अष्टोत्तरशतं प्रोर्च्य विधिवन्मधुसूदनम्
ज्येष्टमासे सिते पक्षे द्वादश्यामुपवासकृत्
नमस्त्रिविक्तमायेति पूजयेद्भक्तिसंयुतः
कृत्वा जागरणं रात्रौ पुनः पूजां प्रकल्पयेत्
देवदेव जगन्नात प्रसीद परमेश्वर
ब्राह्मणान्भोजयेच्छक्त्या स्वयं भुञ्जीत वाग्यतः
सो ऽष्टानां नरमेधानां विपापः फलमान्पुयात्
वामनं पूर्वमानेन स्नापयेत्पयसा व्रती
हुत्वा च जागरं कुर्याद्वामनं चार्चयेत्पुनः
भक्त्या प्रदद्याद्विप्राय वामनार्चनशीलिने
वामनस्तारको ऽस्माच्च वामनाय नमो नमः
कृत्वै वमग्रिष्टोमानां शतस्य फलमाप्नुयात्
क्षीरेण मधुमिश्रेण स्नापयेच्छ्रीधरं व्रती
जुहुयात्पृषदाज्येन शतमष्टोत्तरं मुने
दातव्यं चैव विप्राय क्षीराढकमनुत्तमम्
मन्त्रेणानेन विप्रेन्द्रु सर्वकामाश्रसिद्धये
क्षीरदानेन सुप्रीतो भव सर्वसुखप्रदः
एव कृत्वा श्वमेधानां सहस्रस्य फलं लभेत्