तदा ख्याहि मुनिश्रेष्ठ विष्णुभक्तो ऽसि मानद
भूयो भूयो यतः पुच्छेश्चरित्रं शार्ङ्गधन्वनः
प्रसीदति हरिर्यैस्तु प्रयच्छत्यभयं तथा
इहामुत्र सुखं तस्य तपोवृद्धिश्च जायते
प्रयान्ति परमं स्थानमिति प्राहुर्महर्षयः
उपोषितो ऽडर्चयेत्सम्यङ् नरः श्रद्धासमन्वितः
गन्धपुष्पाक्षतैर्धूपैर् दीपैर्नैवेद्यपूर्वकैः
केशवाय नमस्तुभ्यमिति विष्णुं च पूजयेत्
रात्रौ जागरणं कुर्याच्छालग्रामसमीपतः
गीतैर्वाद्यैश्च नैवेद्यैर्भक्ष्यैर्भोज्यैश्च केशवम्
पुनः कल्ये समुत्थाय कृत्वा कर्म यथोचितम्
पायसं घृतसंमिश्रं नालिकेरफलान्वितम्
केशवः केशिहा देवः सर्वसंपत्प्रदायकः
ब्रह्मणान्भोजयेत्पश्चाच्छक्तितो बन्धुभिः सह
इति यः कुरुते भक्त्या केशवार्चनमुत्तमम्
पौषमासे सिते पक्षे द्वादश्यां समुपोषितः
पयसा स्नाप्य नैवेद्यं पायसं च समर्पयेत्
धूपैर्दीपैश्च नैवेद्यैर्गन्धैः पुष्पैर्मनोरमैः
कृशरान्नं च विप्राय दद्यात्सघृतदक्षिणम्
नारायणः प्रसन्नः स्यात्कृशरान्नप्रदानतः
द्विजांश्च भोजेयच्छक्त्या स्वयमद्यात्सबान्धवः
अग्निष्टोमाष्टकफलं स संपूर्णमवाप्नुयात्
नमस्ते माधवायेति हुत्वाष्टौ च घृताहुतीः
पुष्पगन्धाक्षतैरर्चेत्सावधानेन चेतसा
कल्यकर्म च निर्वर्त्य माधवं पुनरर्चयेत्
सदक्षिणं सवास्त्रञ्च सर्वपापविमुक्तये
तिलदानेन महता सर्वान्कामान्प्रयच्छतु
ब्रह्मणान्भोजयेच्छक्त्या संस्मरन्माधवं प्रभुम्
वाजपेय शतस्यासौ संपूर्णं फलमाप्नुयात्
गोविन्दाय नमस्तुभ्यमिति संपूजयेद्व्रती