स्थाणु श्चरिष्णुर्महदल्पकं च असञ्च सज्जीवमजीमास
स्वतन्त्रमेकं गुणुनां गुणं च नमामि भूयः प्रणमामि भूयः
आविर्बभूव भृपस्य संतत्पतपसोग्रतः
त्रिलोचनमुदाराङ्गं नागयज्ञोपवीतिनम्
गजचर्माम्बरधरं सुरार्चितपदाम्बुजम्
तत उत्थाय सहसा शिवाग्रे विहिताञ्जलिः
विज्ञाय भक्तिं भूपस्य शङ्करः शशिशेखरः
तोषितो ऽस्मि त्वया सम्यक् स्तोत्रेण तपसा तथा
उवाच प्राञ्जलिर्भूत्वा जगतामीश्वरेश्वरेश्वरम्
तदा गङ्गां प्रयच्छास्मत्पितॄणां मुक्तिहेतवे
तुभ्यं मोक्षं परश्चेति तमुक्त्वान्तर्दधे शिवः
पावयन्ती जगत्सर्वमन्वगच्छद्भगीरथम्
भागीरथीति विख्याता त्रिषु लोकेष्वभून्मुने
तं देशं प्लावयामास गङ्गा सर्वसरिद्वरा
तदैव नरके मग्ना उद्धृताश्च गतैनसः
त एव पूचितास्तेन गङ्गाजलपरिप्लुताः
प्रणम्याभ्यर्च्य विधिवत्प्राह तान्प्रीतमानसः
मुक्ता विमानमारुह्य गच्छध्वं विष्णुमन्दिरम्
दिव्यदेहधरा भूत्वा विष्णुलोकं प्रपेदिरे
सर्वलोकेषु विख्याता महापातकनाशिनी
पठेच्च शृणुयाद्वापि गङ्गास्नानफलं लभेत्
स याति विष्णुभवनं पुनरावृत्तिवर्जितम्
श्रावितं सर्वपापन्घं गङ्गामाहात्म्य मुत्तमम्
किं पप्रच्छ पुनः सूत सनकं मुनिसत्तमम्
पृष्टं पुनर्यथा प्राह प्रवक्ष्यामि तथैव तत्
श्रुत्वा ब्रह्मसुतो भूयः पृष्टवानिदमादरात्
गाङ्गेयमाहात्म्यमघप्रणाशि त्वत्तो मुने कारुणिकादभीष्टम्
नानोपदेशैः सुविमुग्धचित्तं प्रबोधयन्ति प्रसभं प्रसन्नम्
ददाति भक्तिं भजतां दयालुर्मुक्तिस्तु तस्या विदिता हि दासी
भक्तानुसेवासु महाप्रयासं विमृश्य कस्यापि न भक्तियोगम्