स एव पतितो ज्ञेयो यतः कर्मबहिष्कृतः
भ्रष्टो यः स्वाश्रमाचारात्पतितः सो ऽभिधीयते
आचारात्पतितं मूढं न पुनाति द्विजोत्तम
यज्ञो वा विविधो ब्रह्मंस्त्यक्ताचारंन रक्षति
आचारात्प्राप्यते मोक्ष आचारात्किं न लभ्यते
हरिभक्तेपरि तथा निदानं भक्तिरिष्यते
तस्मात्समस्तलोकानां भक्तिर्मातेति गीयते
तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्ंमिकाः
न तस्य त्रिषु लोकेषु सदृशो ऽस्त्यजनन्दन
तस्मिंस्तुष्टे भवेज्ज्ञानं ज्ञानान्मोक्षमवाप्यते
तत्सङ्गं प्राप्यते पुम्भिः सुकृतैः पूर्वसञ्चितैः
कामादिदोषनिर् मुक्तास्ते सन्तो लोकशिक्षकाः
यदि लभ्येत विज्ञेयं पुण्यं जन्मान्तरार्जितम्
सत्सङ्गतिर्भवेत्तस्य नान्यथा घटते हि सा
सन्तः सूक्तिमरीच्योश्चान्तर्ध्वान्तं हि सर्वदा
तेषां सङ्गो भवेद्यस्य तस्य शान्तिर्हि शाश्वती
तेषां लोको भवेत्कीदृक्तत्सर्वं ब्रूहि तत्त्वतः
एतान्निगदितुं शक्तस्त्वतो नास्त्यधिको ऽपरः
यमुवाच जगन्नाथो योगनिद्राविमोचितः
जगत्कर्त्ता शिवब्रह्म स्वरुपवान्
जगत्येकार्णवीभूते नष्टे स्थावरजङ्गमे
असंख्याताब्जजन्माद्यैराभूषिततनूरूहः
सूक्ष्मात्सूक्ष्मतरो देवो ब्रह्माण्डग्रासंबृंहितः
मार्कण्डेयः स्थिनस्तस्य लीलाः पश्यन्महे शितुः
हरिरेकः स्थित इति मुने पूर्वं हि शुश्रुम
सर्वग्रस्तेन हरिणा किमर्थं सो ऽवशेषितः
हरिकीर्तिसुधापाने कस्यालस्यं प्रजा यते
शालग्रामे महातीर्थे सो ऽतप्यत महातपाः
निराहारः क्षमायुक्तः सत्यसन्धो जितेन्द्रियः
सर्वभूतहितो दान्त स्तताप सुमहत्तपः