भूपतिर्विस्मयं प्रात्पः किं करोमीति विस्मितः
सत्यमेतदिति व्यक्तं न चिन्तां कर्तुमर्हसि
समस्तदेवताराजमस्तौषीद्भक्तितत्परः
प्रमाणागोचरं देवमीशानं प्रणवात्मकम्
विश्वरुपं विरुपाक्ष प्रणतो ऽस्म्युग्ररेतसम्
समामनन्ति योगीन्द्रा स्तं वन्दे पुष्टिवर्धनम्
नमो ऽस्तु नीलग्रीवाय पसूनां पतये नमः
नमो ऽकल्पप्रकल्पाय भूतानां पतये नमः
नमः कपालहस्ताय पाशमुद्गरधारिणे
नमः पञ्चास्यदेवाय क्षेत्राणां पतये नमः
अनेकरुपरुपाय निर्गुणाय परात्मने
नमो हिरण्यगर्भाय हिरण्यपतये नमः
नमो ध्यानस्वरुपाय नमस्ते ध्यानसाक्षिणे
येनेदं विश्वमखिलं चराचरविराजितम्
वर्षेवाभ्रेण जनितं प्रधानपुरुषात्मना
यमामनन्ति तत्त्वज्ञाः सवितारं नृचक्षुषाम्
मृत्युञ्जयं महादेवं परात्परतरं विभुम्
कपर्द्दिने नमस्तुभ्यं सद्यो जाताय वै नमः
मन्यवे त इषे त्रघय्याः पतये यज्ञतन्तवे
कृशानुरेतसे तुभ्यं नमो ऽस्तु सुमाहात्मने
स्थाणु श्चरिष्णुर्महदल्पकं च असञ्च सज्जीवमजीमास
स्वतन्त्रमेकं गुणुनां गुणं च नमामि भूयः प्रणमामि भूयः
आविर्बभूव भृपस्य संतत्पतपसोग्रतः
त्रिलोचनमुदाराङ्गं नागयज्ञोपवीतिनम्
गजचर्माम्बरधरं सुरार्चितपदाम्बुजम्
तत उत्थाय सहसा शिवाग्रे विहिताञ्जलिः
विज्ञाय भक्तिं भूपस्य शङ्करः शशिशेखरः
तोषितो ऽस्मि त्वया सम्यक् स्तोत्रेण तपसा तथा
उवाच प्राञ्जलिर्भूत्वा जगतामीश्वरेश्वरेश्वरम्
तदा गङ्गां प्रयच्छास्मत्पितॄणां मुक्तिहेतवे