अतिसीपुष्पंसंकाशं स्फुरत्कुण्डलमण्डितम्
श्रीवत्सकौस्तुमधरं वनमालाविभूषितम्
ननाम दण्डवद्भूमौ भूपतिर्नम्रकन्धरः
कृष्ण कृष्णेति श्रीकृष्णेति समुच्चरन्
उवाच कृपयाविष्टो भगवान्भूतभावनः
आगमिष्यन्ति मल्लोकं तव पूर्वपितामहाः
स्तुहि ते सकलं कामं सवै सद्यः करिष्यन्ति
तस्मादाराधयेशानं स्तोत्रैः स्तुत्यं सुखप्रदम्
त्वया संपुजितो राजन्सद्यः श्रेयो विधास्यति
अन्तर्दधे मुनिश्रेष्ठ उत्तस्थौसो ऽपि भूपतिः
भूपतिर्विस्मयं प्रात्पः किं करोमीति विस्मितः
सत्यमेतदिति व्यक्तं न चिन्तां कर्तुमर्हसि
समस्तदेवताराजमस्तौषीद्भक्तितत्परः
प्रमाणागोचरं देवमीशानं प्रणवात्मकम्
विश्वरुपं विरुपाक्ष प्रणतो ऽस्म्युग्ररेतसम्
समामनन्ति योगीन्द्रा स्तं वन्दे पुष्टिवर्धनम्
नमो ऽस्तु नीलग्रीवाय पसूनां पतये नमः
नमो ऽकल्पप्रकल्पाय भूतानां पतये नमः
नमः कपालहस्ताय पाशमुद्गरधारिणे
नमः पञ्चास्यदेवाय क्षेत्राणां पतये नमः
अनेकरुपरुपाय निर्गुणाय परात्मने
नमो हिरण्यगर्भाय हिरण्यपतये नमः
नमो ध्यानस्वरुपाय नमस्ते ध्यानसाक्षिणे
येनेदं विश्वमखिलं चराचरविराजितम्
वर्षेवाभ्रेण जनितं प्रधानपुरुषात्मना
यमामनन्ति तत्त्वज्ञाः सवितारं नृचक्षुषाम्
मृत्युञ्जयं महादेवं परात्परतरं विभुम्
कपर्द्दिने नमस्तुभ्यं सद्यो जाताय वै नमः
मन्यवे त इषे त्रघय्याः पतये यज्ञतन्तवे
कृशानुरेतसे तुभ्यं नमो ऽस्तु सुमाहात्मने