एवं कृत्वा प्रेतपुरे स्थितस्य स्वर्गे गतिः स्यात्त महेन्द्रतुल्या
तत्र नारायणः स्वामी नान्यः स्वामी कदाचन
भाद्रशुक्लचतुर्दश्यां यावदाक्रमते जलम्
सार्द्धहस्तशतं यावद्गर्भस्तीरं ततः परम्
तीराद्गव्यूतिमात्रं तु परितः क्षेत्रमुच्यते
एकयोजनविस्तीर्णा क्षेत्रसीमा तटद्वयात्
तां तु दृष्ट्वा पलायन्ते यथा सिंहं वनौकसः
सिद्धक्षेत्रं तु तज्ज्ञेयं समन्तात्तु त्रियोजनम्
निमित्तेषु च सर्वेषु तन्निवृत्तो भवेन्नरः
निष्फलं तस्य तत्तीर्थं यावत्तद्धनमुच्यते
जनार्दने तु विक्रीते विक्रीतं भुवनत्रयम्
बिभर्ति रूपं सोर्ऽकस्य तमोनाशाय केवलम्
प्रीणयन्यो नरः पिण्डान्दद्यात्तान् स्वर्नयेदपि
पठन् शृण्वन्नरो ह्येति तद्विष्णोः परमं पदम्
वैष्णवीं गतिमिच्छद्भिः शैवीं वा विधिनन्दिनि