शृणोति श्रद्धया वापि कायवाचिकसंभवैः
रोगी प्रमुच्यते रोगान्मुच्येतापन्न आपदः
सर्वान्कामानवाप्नोति प्रेत्य ब्रह्मणि लीयते
नाग्निचौरभयं तत्र पापेभ्यो ऽपि भयं नहि
जपंस्तु दशकृत्वश्च दरिद्रो वापि चाक्षमः
पूर्वोक्तेन विधानेन फलं यत्परिकीर्तितम्
विधिर्यो विहितः सम्यक्सो ऽपि गङ्गाप्रपूजने
उमा यथा तथा गङ्गा चात्र भेदो न विद्यते
लक्ष्मीगौर्यतरं यश्च प्रब्रूते मूढधीस्तु सः
धन्या देहं विमुञ्चन्ति हृदयस्थे जनार्दने
ते विष्णुलोकं गच्छन्ति स्तूयमाना दिविस्थितैः
स याति न पुनर्जन्म ब्रह्मसायुज्यमेति च
सा गेतिस्त्यजतः प्राणान् गङ्गायां तु शरीरिणः
सत्यमेव परं लोकमाप्नोति पितृभिः सह
गतानि बहुजन्मानि यत्र यत्र मृतानि च
अत्रदूरे समीपे च सदृशं योजनद्वयम्
ज्ञानतो ऽज्ञानतो वापि कामतो ऽपि वा
प्राणेषूत्सृज्यमानेषु यो गङ्गां संस्मरेन्नरः
स्पृशेद्वा पापशीलो ऽपि स वै याति परां गतिम्
तस्मात्सुर्वान्प्रोह्य मुक्तिप्रदान्वै सेवेद्गङ्गामा शरीरस्य पातम्
ब्रह्मविष्णुशिवैः पूज्यं पदमक्षय्यमश्नुते
चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत्
भक्त्या गङ्गां स्मरन्याति शैवं वा वैष्णवं पुरम्
प्लावयित्वा दिवं निन्ये या पापान्यगरात्मजान्
तावद्वर्षसहस्राणि स्वर्गलोके महीयते
तत्कालमादितः कृत्वा स्वर्गलोके भवेत्स्थितिः
न तस्य पुनरावृत्तिर्ब्रह्मलोकात्कथञ्चन
गङ्गायां मरणे यादृक्तादृक्फलमवाप्नुयात्
तदस्थिपिण्डं पुटके निधाय पश्यन् दिशं प्रेतगणोपगूढाम्
स्नात्वा ततस्तीर्थवटाक्षयं च दृष्ट्वा प्रदद्यादथ दक्षिणां तु