त्रिदशासनसंस्थायै तेजोवत्यै नमो ऽस्तु ते
नमस्ते विश्वमित्रायै रेवत्यै ते नमोनमः
नमस्ते विश्वमुख्यायै नन्दिन्यै ते नमोनमः
परावरगताद्यैयै तारायै ते नमोनमः
शान्तायै ते प्रतिष्ठायै वरदायै नमोनमः
ब्रह्मगायै ब्रह्मदायै दुरितघ्न्यै नमोनमः
विलुषायै दुर्गहन्त्र्यै दक्षायै ते नमोनमः
गङ्गा ममाग्रतो भूयाद्गङ्गा मे पार्श्वयोस्तथा
आदौ त्वमन्ते मध्ये च सर्वा त्वं गाङ्गते शिवे
गङ्गे त्वं परमात्मा च शिवस्तुभ्यं नमोनमः
शृणोति श्रद्धया वापि कायवाचिकसंभवैः
रोगी प्रमुच्यते रोगान्मुच्येतापन्न आपदः
सर्वान्कामानवाप्नोति प्रेत्य ब्रह्मणि लीयते
नाग्निचौरभयं तत्र पापेभ्यो ऽपि भयं नहि
जपंस्तु दशकृत्वश्च दरिद्रो वापि चाक्षमः
पूर्वोक्तेन विधानेन फलं यत्परिकीर्तितम्
विधिर्यो विहितः सम्यक्सो ऽपि गङ्गाप्रपूजने
उमा यथा तथा गङ्गा चात्र भेदो न विद्यते
लक्ष्मीगौर्यतरं यश्च प्रब्रूते मूढधीस्तु सः
धन्या देहं विमुञ्चन्ति हृदयस्थे जनार्दने
ते विष्णुलोकं गच्छन्ति स्तूयमाना दिविस्थितैः
स याति न पुनर्जन्म ब्रह्मसायुज्यमेति च
सा गेतिस्त्यजतः प्राणान् गङ्गायां तु शरीरिणः
सत्यमेव परं लोकमाप्नोति पितृभिः सह
गतानि बहुजन्मानि यत्र यत्र मृतानि च
अत्रदूरे समीपे च सदृशं योजनद्वयम्
ज्ञानतो ऽज्ञानतो वापि कामतो ऽपि वा
प्राणेषूत्सृज्यमानेषु यो गङ्गां संस्मरेन्नरः
स्पृशेद्वा पापशीलो ऽपि स वै याति परां गतिम्
तस्मात्सुर्वान्प्रोह्य मुक्तिप्रदान्वै सेवेद्गङ्गामा शरीरस्य पातम्