दशप्रस्थां स्तिलान्दद्याद्दश विप्रेभ्य एव च
मत्स्यकच्छपमण्डूकमरादिजलेचरान्
गङ्गायां प्रक्षिपेत्पूर्व्वं मन्त्रेणैव तु मन्त्रवित्
रथारूढप्रतिकृतिं गङ्गायास्तूत्तरामुखाम्
दुर्गाया रथयात्रास्ति तथैवात्रापि कारयेत्
दशपापैर्वक्ष्यमाणैः सद्य एव विमुच्यते
परदारोपसेवा च कायिकं त्रिबिधं स्मृतम्
असंबद्धप्रलापश्च वाचिकं स्याच्चतुर्विधम्
वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम्
मुच्यते नात्र संदेहो ब्रह्मणो वचनं यथा
उद्धरत्येव संसारान्मन्त्रेणानेन पूजिता
इति मन्त्रेण यो मर्त्यो दिने तस्मिन्दिवानिशम्
उद्दरेद्दश पूर्वाणि पराणि च भवार्णवात्
गङ्गाग्रे तद्दिने जप्यं विष्णुपूजां प्रवर्तयेत्
नमो ऽस्तु विष्णुरूपिण्यै गङ्गायै ते नमो नमः
सर्वस्य सर्वव्याधीनां भिषक्श्रेष्ठे नमो ऽस्तु ते
संसारविषनाशिन्यै जीवनायै नमोनमः
शान्त्यै संतापहारिण्यै नमस्ते सर्वमूर्तये
भुक्तिमुक्तिप्रदायिन्यै भोगवत्यै नमोनमः
नमस्त्रैलोक्यमूर्तायै त्रिदशायै नमोनमः
त्रिदशासनसंस्थायै तेजोवत्यै नमो ऽस्तु ते
नमस्ते विश्वमित्रायै रेवत्यै ते नमोनमः
नमस्ते विश्वमुख्यायै नन्दिन्यै ते नमोनमः
परावरगताद्यैयै तारायै ते नमोनमः
शान्तायै ते प्रतिष्ठायै वरदायै नमोनमः
ब्रह्मगायै ब्रह्मदायै दुरितघ्न्यै नमोनमः
विलुषायै दुर्गहन्त्र्यै दक्षायै ते नमोनमः
गङ्गा ममाग्रतो भूयाद्गङ्गा मे पार्श्वयोस्तथा
आदौ त्वमन्ते मध्ये च सर्वा त्वं गाङ्गते शिवे
गङ्गे त्वं परमात्मा च शिवस्तुभ्यं नमोनमः