स्वस्ति ते ऽस्तु तपः सिद्धिं गच्छ लब्धुं यथासुखम्
परमां प्रीतिमापन्नः प्रपेदेतपसे वनम्
नादेश्वरे महाक्षेत्रे तपस्तेपे ऽतिदुश्चरम्
कृतातिथ्यर्हणश्चापि नित्यं होमपरायणः
पत्रैः पुष्पैः फलैस्तोयैस्त्रिकालं हरिपूजकः
ध्यायन्नारायणं देवं शीर्णपर्णाशनो ऽभवत्
निरुच्छ्वास स्तपस्तप्तुं ततः समुपचक्रमे
षष्टिवर्षसहस्ताणि निरुच्छ्वासपरो ऽभवत्
तं दृष्ट्वा देवताः सर्वे वित्रस्ता वह्निता पिताः
अस्तुवन्देवदेवेशं शरणागतपालकम्
स्वभावशुद्धं परिपूर्णभावं वदन्ति यज्ज्ञानतनुं च तज्ज्ञाः
जगत्स्वरुपो जगदादिनाथस्तस्मै नताः स्मः पुरुषोत्तमाय
तमीशमीड्यं पुरुषं पुराणं नताः स्म विष्णुं पुरुषाथसिद्ध्यै
कालात्मकं तं त्रिदशाधिनाथं नमामहे वै पुरुषार्थरुपम्
तमादिदेवं गुणसन्निधानं सर्वोपदेष्टारमिताः शरण्यम्
सच्चित्परानन्दघनस्वरुपं रुपादिहीनं प्रणताः स्म देवम्
यज्ञाप्रियं यज्ञकरं विशुद्धं नताः स्म सर्वोत्तममव्ययं तम्
चरितं तस्य राजर्षेर्देवानां संन्यवेदयत्
जगाम यत्र राजर्षिस्तपस्तपति नारद
प्रत्यक्षतामगात्तस्य राज्ञः सर्वजगद्गुरुः
अतिसीपुष्पंसंकाशं स्फुरत्कुण्डलमण्डितम्
श्रीवत्सकौस्तुमधरं वनमालाविभूषितम्
ननाम दण्डवद्भूमौ भूपतिर्नम्रकन्धरः
कृष्ण कृष्णेति श्रीकृष्णेति समुच्चरन्
उवाच कृपयाविष्टो भगवान्भूतभावनः
आगमिष्यन्ति मल्लोकं तव पूर्वपितामहाः
स्तुहि ते सकलं कामं सवै सद्यः करिष्यन्ति
तस्मादाराधयेशानं स्तोत्रैः स्तुत्यं सुखप्रदम्
त्वया संपुजितो राजन्सद्यः श्रेयो विधास्यति
अन्तर्दधे मुनिश्रेष्ठ उत्तस्थौसो ऽपि भूपतिः