एवं सकृच्च यो भक्त्या करोति श्रद्धयान्वितः
तपः कृत्वा तु नियमाद्यत्पुण्यं तदसंशयम्
सुश्वेतवृषयुक्तैश्च मुक्ताजालविभूषितैः
नीलोत्पलसुंगन्धाभिः सुरूपाभिः समन्ततः
अनन्तकालमैश्वर्ययुक्तो भूत्वा ततो भुवि
एकच्छत्रेण स महीं पालयत्याज्ञया सह
स तया श्रद्धया युक्तो गङ्गायां मरणं लभेत्
ज्येष्ठे मासि सिते पक्षे दशम्यां हस्तसंयुते
निशायां जागरं कृत्वा गङ्गां दशविधैस्ततः
तथैव दीपैस्तांबूलैः पूजयेच्छ्रद्धयान्वितः
दशप्रसृति कृष्णंश्च तिलान्सर्पिश्च वै जले
ततो गङ्गातटे रम्ये हेम्ना रूप्येण वा तथा
पद्मस्वस्तिकचिह्नस्य संस्थितस्य तथोपरि
संस्थाप्य पूजयेद्देवीं तदलाभे मृदादि वा
चतुर्भुजां सुनेत्रां च चन्द्रायुतसमप्रभाम्
सुप्रसन्नां च वरदां करुणार्द्रनिजान्तराम्
दिव्यरत्नपरीतां च दिंव्यमाल्यानुलेपनाम्
वक्ष्यमाणेन मन्त्रेण कुर्यात्पूजां विशेषतः
प्रतिमाग्रे स्थण्डिले तु गोमयेनोपलेपयेत्
भगीरथं च नृपतिं हिमवन्तं नगेश्वरम्
दशप्रस्थां स्तिलान्दद्याद्दश विप्रेभ्य एव च
मत्स्यकच्छपमण्डूकमरादिजलेचरान्
गङ्गायां प्रक्षिपेत्पूर्व्वं मन्त्रेणैव तु मन्त्रवित्
रथारूढप्रतिकृतिं गङ्गायास्तूत्तरामुखाम्
दुर्गाया रथयात्रास्ति तथैवात्रापि कारयेत्
दशपापैर्वक्ष्यमाणैः सद्य एव विमुच्यते
परदारोपसेवा च कायिकं त्रिबिधं स्मृतम्
असंबद्धप्रलापश्च वाचिकं स्याच्चतुर्विधम्
वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम्
मुच्यते नात्र संदेहो ब्रह्मणो वचनं यथा