गत्वा शिवपुरं रम्यं सर्वस्वकुलसंयुतः
भुक्त्वा भोगानशेषांश्च यावदाभूतसंप्लवम्
तत्र भुङ्क्ते समस्तांश्च भोगान्विगतकल्मषः
सर्वरोगविनिर्मुक्तः सो ऽप्येतत्फलभाग्भवेत्
शाल्यन्नं क्षीरसंयुक्तं यः कुर्यान्नक्तभोजनम्
काष्ठमौनेन भुञ्जानो वटकाष्टेन वै तथा
शिवलिङ्गसमीपे तु गङ्गातीरे निशि स्वपेत्
स्नात्वोपवासं संकल्प्य कुर्य्याज्जागरणं निशि
नैवेद्यधूपदीपैश्च संपूज्य वृषभं शुभम्
अलङ्कृत्य विधानेन शिवाय विनिवेदयेत्
एवं सकृच्च यो भक्त्या करोति श्रद्धयान्वितः
तपः कृत्वा तु नियमाद्यत्पुण्यं तदसंशयम्
सुश्वेतवृषयुक्तैश्च मुक्ताजालविभूषितैः
नीलोत्पलसुंगन्धाभिः सुरूपाभिः समन्ततः
अनन्तकालमैश्वर्ययुक्तो भूत्वा ततो भुवि
एकच्छत्रेण स महीं पालयत्याज्ञया सह
स तया श्रद्धया युक्तो गङ्गायां मरणं लभेत्
ज्येष्ठे मासि सिते पक्षे दशम्यां हस्तसंयुते
निशायां जागरं कृत्वा गङ्गां दशविधैस्ततः
तथैव दीपैस्तांबूलैः पूजयेच्छ्रद्धयान्वितः
दशप्रसृति कृष्णंश्च तिलान्सर्पिश्च वै जले
ततो गङ्गातटे रम्ये हेम्ना रूप्येण वा तथा
पद्मस्वस्तिकचिह्नस्य संस्थितस्य तथोपरि
संस्थाप्य पूजयेद्देवीं तदलाभे मृदादि वा
चतुर्भुजां सुनेत्रां च चन्द्रायुतसमप्रभाम्
सुप्रसन्नां च वरदां करुणार्द्रनिजान्तराम्
दिव्यरत्नपरीतां च दिंव्यमाल्यानुलेपनाम्
वक्ष्यमाणेन मन्त्रेण कुर्यात्पूजां विशेषतः
प्रतिमाग्रे स्थण्डिले तु गोमयेनोपलेपयेत्
भगीरथं च नृपतिं हिमवन्तं नगेश्वरम्