हविष्याशी मिताहारो ब्रह्मचर्यसमन्वितः
संवत्सरान्ते तस्येषा गङ्गा दिव्यवपुर्द्धरा
प्रत्यक्षरूपा पुरतस्तिष्टत्येव वरप्रदा
दृष्ट्वा स्व चक्षुषा मर्त्यः कृतकृत्यो भवेच्छुभे
निष्कामस्तु लभेन्मोक्षं विप्रस्तेनैव जन्मना
गङ्गार्चनं मुक्तिकरं व्रतं त्त सांवत्सरं श्रीपतितुष्टिदं हि
पुनः पप्रच्छ राजेन्द्रं तं विप्रं स्वपुरोहितम्
अधुना श्रोतुमिच्छामि गङ्गाव्रतमनुत्तमम्
किं फलं वद सर्वज्ञ त्वामहं शरणं गता
पत्या विरहिता चाहं पुत्रहीना विदांवर
देवताराधनं ब्रूहि यच्छ्रुत्वा मुच्यते ह्यघात्
सभाज्य मोहिनीं भूप प्राह वेदविदां वरः
साधु पृष्टं त्वया देवि लोकानां हितकाम्यया
वृषध्वजेन कथितं शिवेन दयया पुरा
देवैस्तु भुक्तं पूर्वाह्णे मध्याह्ने ऋषिभिस्तथा
सर्वा वेला अतिक्रम्य नक्तभोजनमुत्तमम्
अयाचिताद्वारं नक्तं तस्मान्नक्तं समाचरेत्
अग्निकार्य्यमधःशय्यां नक्ताशी षट् समाचरेत्
शिवायतनपार्श्वे तु कृशरं घृतसंयुतम्
काष्ठमौनेन भुञ्जानो जिह्वालौल्यं विवर्जयेत्
धर्मराजस्य देव्याश्च पृथक्पिण्डं प्रकल्पयेत्
पौर्णमास्यां तु गन्धैश्च गङ्गायाः सलिलैस्तथा
तथैव हेमपुष्पं च लिङ्गमूर्ध्नि विनिक्षिपेत्
तिलाढकं प्रगृह्याथ शिवलिङ्गोपरि क्षिपेत्
तदलाभे तु सौवर्णैः पङ्कजैः पूजयेद्धरम्
घृतदीपं तथा चैव चन्दनाद्यैर्विलेपनम्
कृष्णगोमिथुनं चैव सरूपं च निवेदयेत्
वर्जयेन्मधु मांसं च तं मासं ब्रह्मचर्यवान्
यमैश्च नियमैर्युक्तः श्रद्धाभक्तिपरायणः
इन्द्रनीलप्रतीकाशैर्विमानैः शिखिसंयुक्तैः