प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तयेत्
धेनुवत्सौ घृतस्यैतौ सितश्लक्ष्णांबरावृतौ
सितसूत्रशिरालौ च सितकंबलकंबलौ
विद्रुमक्रमगो पेतौ नवनीतस्तनान्वितौ
सुवर्णशृङ्गाभरणौ शुद्धरौप्यखुरावुभौ
इत्येवं रचयित्वा तु धूपदीपैरथार्चयेत्
धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु
धेनुरूपेण सा देवी मम पापं व्यपोहतु
चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये
लक्ष्मीर्या लोकपालानां सा धेनुर्वरदास्तु मे
सर्वपापहरा धेनुः सा मे शान्तिं प्रयच्छतु
विधानमेतद्धेनूनां सर्वासामिह पठ्यते
तासां स्वरूपं वक्ष्यामि शास्त्रोकं शृणु मोहिनि
तिलधेनुस्तृतीया च चतुर्थी जलसंज्ञिता
सप्तमी शर्कराधेनुर्दधिधेनुस्तथाष्टमी
कुंभाः स्युर्द्रवधेनूनां चेतरासां तु राशयः
नवनीतेन तैलेन तथा के ऽपि महर्षयः
मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि
अनेकयज्ञफलदाः सर्वपापहराः शुभाः
युगादौ चैव मन्वादौ चोपरागादिपर्वसु
तीर्थेषु स्वगृहे वापि गङ्गातीरे विशेषतः
प्रदक्षिणीकृत्य विप्रं दक्षिणाभिः प्रतोष्य च
ततः संपूजयेद्गङ्गां विधिना सुसमाहितः
शालितन्दुलप्रस्थेन द्विप्रस्थपयसा तथा
प्रत्येकं पलमात्रं च भक्तिभावेन संयुतः
तथा गुञ्जार्द्धमात्रं च सुवर्णं रूप्यमेव च
बिल्वपत्राणि दूर्वाश्च रोचना सितचन्दनम्
यथाशक्ति महाभक्त्या गङ्गायां चैव निक्षिपेत्
ओङ्गङ्गायै नारायण्यै शिवायै च नमोनमः
पौर्णमास्यामपायां वा कार्यं प्रातः समाहितैः