सूर्यकोटिप्रतीकाशे विमाने वैष्णवे पुरे
भूमिरेण्वब्दसंख्याकं कालं स्थित्वा च तत्र सः
अक्षयायां तु यो देवि स्वर्णं षोडशमासिकम्
अन्नदानाद्विष्णुलोकं शैवं वै तिलदानतः
गान्धर्वं स्वर्णवासोभिः कीर्तिं कन्याप्रदानतः
गंमातीरे नरो यस्तु नानावृक्षैः समन्वितम्
कदलीनारिकेरैश्च कपित्थाशोकचंपकैः
आम्रैस्तालैर्नागरङ्गैर्वृक्षैरन्यैश्च संयुतम्
निचितं कारयित्वैवमावासं पुष्पशोभितम्
प्रयच्छति तथा भक्त्या सर्वार्थं परिकल्प्य च
यावन्ति तेषां वृक्षाणां पुष्पमूलफलानि च
तावत्कल्पसहस्राणि तेषां लोकेषु संस्थितिः
यच्छ्रुतं त्वन्मुखांभोजाद्गामाहात्म्यमुत्तमम्
यस्याः संदर्शनादीनामीदृशं पुण्यमीरितम्
तथा कथयविप्रेन्द्र भक्ताहं तव सर्वदा
वेदागमानां तत्त्वज्ञः स्मयमान उवाच ह
गुडधेनुविधानं च यथा शास्त्रे प्रकीर्तितम्
गोमयेनोपलिप्तायां कुशानास्तीर्य यत्नतः
उत्तमा गुडधेनुस्तु चतुर्भारैः प्रकीर्तिता
अर्द्धभारेण वत्सः स्यात्कनिष्ठा भारकेण तु
प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तयेत्
धेनुवत्सौ घृतस्यैतौ सितश्लक्ष्णांबरावृतौ
सितसूत्रशिरालौ च सितकंबलकंबलौ
विद्रुमक्रमगो पेतौ नवनीतस्तनान्वितौ
सुवर्णशृङ्गाभरणौ शुद्धरौप्यखुरावुभौ
इत्येवं रचयित्वा तु धूपदीपैरथार्चयेत्
धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु
धेनुरूपेण सा देवी मम पापं व्यपोहतु
चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये
लक्ष्मीर्या लोकपालानां सा धेनुर्वरदास्तु मे