अपवित्रः पवित्रो वा जपन्निष्पातको भवेत्
तस्मात्सर्वप्रयत्नेन पूजयेदमरापगाम्
रत्नकुंभसितांभोजवराभयकरं शुभाम्
सुप्रसन्नां सुवदनां करुणार्द्रहृदंबुजाम्
ध्यात्वा जलमयीं गङ्गां पूजयन्पुण्यभाग्भवेत्
स एव देवसदृशो बहुकाले फलाधिकः
क्रोधात्पीता पुनस्त्यक्ता कर्णरङ्घ्रात्तु दक्षिणात्
अक्षयायां तु वैशाखे कार्तिके ऽपि शुभानने
विष्णुं गङ्गां च शंभुं च पूजयेद्भक्ति भावतः
तुलसीबिल्वपत्राद्यैर्मातुलुङ्गफलादिभिः
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
ततो महीतलं प्राप्य राजा भवति धार्मिकः
देहान्ते ज्ञानवान्भूत्वा शिवसायुज्यमाप्नुयात्
गङ्गायां तु कृतं सर्वं कोटिकोटिगुणं भवेत्
घृतधेनुं विधानेन तस्य पुण्यफलं शृणु
सहस्रादित्यसंकाशः सर्वकामसमन्वितः
स्वकीयपितृभिः सार्द्धं ब्रह्मलोके महीयते
अन्ते तु ब्रह्मविद्भूत्वा मोक्षमाप्नोत्यसंशयः
गोलोमसंख्यवर्षाणि स्वर्गलोके महीयते
रत्नकाञ्चनभूपूर्णे शीलविद्यायशोन्विते
मोक्षभागी भवेन्नृनं नात्रकार्या विचारणा
नरकस्थान्पितॄन्सर्वान्स्वर्गं नयति वै तदा
भूमिरेणुप्रमाणाब्दं ब्रह्मविष्णुशिवातिगः
भेरीशङ्खादिनिर्घोषैर्गीतवादित्रनिःस्वनैः
सर्वसौख्यान्यवाप्येह सर्वधर्मपरायणः
स्वर्गस्थितान्मोक्षयित्वा स्वयं ज्ञानी च मोहिनि
परं वैराग्यमापन्नः परं ब्रह्माधि गच्छति
त्रिभागहीनं गोचर्म मानमाह विधिः स्वयम्
ब्रह्मविष्णुशिवप्रीत्ये दुर्गाया भास्करस्य च
तपोव्रतेषु पुण्येषु यत्फलं परिकीर्तितम्