मुक्ताजालपरिच्छन्नान्वेणुवीणानिनादितान्
गन्धर्वदेहरुचिरान्दिव्यभोगसमन्वितान्
गङ्गायां तु नरः स्नात्वा यो नित्यं लिङ्गमर्चयेत्
अग्निहोत्राणि वेदाश्च यज्ञाश्च बहुदक्षिणाः
पितॄनुदिश्य वा देवान्गङ्गांभिभिः प्रसिंचयेत्
मृत्कुंभात्ताम्रकुंभैस्तु स्नानं दशगुणं स्मृतम्
एवमर्घे च नैवेद्ये बलिपूजादिषु क्रमात्
विभवे सति यो मोहान्न कुर्याद्विधिविस्तरम्
देवानां दर्शनं पुण्यं दर्शनात्स्पर्शनं वरम्
प्राहुर्गङ्गाजलैः स्नानं घृतस्नानसमं बुधाः
मागधप्रस्थमात्रेण ताम्रपात्रस्थितेन च
आपः क्षीरं कुशाग्राणि घृतं दधि तथा मधु
अष्टाङ्गैरेष युक्तोर्ऽघो भानवे परिकीर्तितः
गङ्गातीरे प्रतिष्ठां तु यः करोति नरोत्तमः
अन्यतीर्थेषु करणात्कोटिगुणं भवेत्
सलक्षणानि कृत्वा तु प्रतिष्ठाप्य दिने दिने
गङ्गायां निक्षिपेन्नित्यं तस्य पुपयमनन्तकम्
अष्टाक्षरं जपेद्भक्त्य मुक्तिस्तस्य करे स्थिता
षण्मासं जपतः सर्वा ह्युपतिष्ठन्ति सिद्धयः
चतुर्विशतिलक्षं वै जपेत्साक्षात्सशङ्करः
अपवित्रः पवित्रो वा जपन्निष्पातको भवेत्
तस्मात्सर्वप्रयत्नेन पूजयेदमरापगाम्
रत्नकुंभसितांभोजवराभयकरं शुभाम्
सुप्रसन्नां सुवदनां करुणार्द्रहृदंबुजाम्
ध्यात्वा जलमयीं गङ्गां पूजयन्पुण्यभाग्भवेत्
स एव देवसदृशो बहुकाले फलाधिकः
क्रोधात्पीता पुनस्त्यक्ता कर्णरङ्घ्रात्तु दक्षिणात्
अक्षयायां तु वैशाखे कार्तिके ऽपि शुभानने
विष्णुं गङ्गां च शंभुं च पूजयेद्भक्ति भावतः
तुलसीबिल्वपत्राद्यैर्मातुलुङ्गफलादिभिः