सोमद्वीपं महापुण्यं तीर्थं वाराणसीसमम्
विश्वामित्रस्य भगिनी गङ्गया यत्र संगता
जह्नुह्रदे महातीर्थे स्नातो मर्त्यो हि मोहिनि
तस्माददितितीर्थं च यत्रावापादितिर्हरिम्
शिलोच्चयं महातीर्थं यत्र तप्त्वा तपः प्रजाः
इन्द्राणीनामतीर्थं स्याद्यत्रेन्द्राणी तु वासवम्
पुण्यदं स्नातकं तीर्थं विश्वामित्रस्तपश्चरन्
प्रद्युम्नतीर्थं तपसा ख्यातं यत्र स्मरो हरेः
ततो दक्षप्रयागं तु गङ्गातो यमुनागत
स्नात्वा तत्राक्षयं पुण्यं प्रयाग इव लभ्यते
सावधाना शृणुष्व त्वं ब्रह्मपुत्रि नृपप्रिये
तेषां कुलानां लक्षं तु भवात्तारयते शिवा
पुण्यं लक्षगुणं कर्तुं समर्था द्विजपावनी
अक्षयां तु प्रकुर्वन्ति तृप्तिं मोहिनि दुर्लभाम्
तावद्वर्षसहस्राणि पितरः स्वर्गवासिनः
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः
स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा
कुशैस्तिलैर्गाङ्गजलैस्ते प्रयान्ति हरेः पदम्
ते तर्पिता गाङ्गजलैर्मोक्षे यान्ति विधेर्वचः
गङ्गायां पितरः सर्वे सुप्रीताः सूर्यवर्चसः
मुक्ताजालपरिच्छन्नान्वेणुवीणानिनादितान्
गन्धर्वदेहरुचिरान्दिव्यभोगसमन्वितान्
गङ्गायां तु नरः स्नात्वा यो नित्यं लिङ्गमर्चयेत्
अग्निहोत्राणि वेदाश्च यज्ञाश्च बहुदक्षिणाः
पितॄनुदिश्य वा देवान्गङ्गांभिभिः प्रसिंचयेत्
मृत्कुंभात्ताम्रकुंभैस्तु स्नानं दशगुणं स्मृतम्
एवमर्घे च नैवेद्ये बलिपूजादिषु क्रमात्
विभवे सति यो मोहान्न कुर्याद्विधिविस्तरम्
देवानां दर्शनं पुण्यं दर्शनात्स्पर्शनं वरम्
प्राहुर्गङ्गाजलैः स्नानं घृतस्नानसमं बुधाः