देशकालादि विज्ञाय स्वयमस्याविरोधतः
सर्वेषामेव जन्तूनामक्लेषजननं हि तत्
कर्मकार्यसहायत्वमकार्यपरिपन्थिता
इच्छानुवृत्तकथनं धर्माधर्मविवेकिनः
ये लोके द्वेषिणो मूर्खाः कुमार्गरतबुद्धयः
धर्माधर्मविवेकेन वेदमार्गानुसारिणः
हरि भक्तिकरं यत्तत्सद्भिश्च परिरञ्चितम्
सर्वं जगदिदं विष्णुर्वष्णुः सर्वस्य कारणम्
सर्वदेवमयो विष्णुर्विधिना पूजयामि तम्
सर्वभूतमयो विष्णुः परिपूर्णः सनातनः
समता शत्रुमित्रेषु वशित्वं च तथा नृप
एते सर्वे समाख्यातास्तपः सिद्धिप्रदा नृणाम्
अष्टाक्षरं महामन्त्रं सर्वपापप्रणाशनम्
विष्णोः प्रियकरं चैव सर्वसिद्धिप्रदायकम्
नमो भगवते प्रोच्य वासुदेवाय तत्परम्
द्वयोः समं फलं राजन्नष्टद्वादशवर्णयोः
शङ्खचचक्रधरं शान्तं नारायणमनामयम्
किरीटकुण्डलधरं नानामण्डनशोभितम्
पीताम्बरधरं देवं सुरासुरनमस्कृतम्
अन्तर्यामी ज्ञानरुपी परिपूर्णः सनातनः
स्वस्ति ते ऽस्तु तपः सिद्धिं गच्छ लब्धुं यथासुखम्
परमां प्रीतिमापन्नः प्रपेदेतपसे वनम्
नादेश्वरे महाक्षेत्रे तपस्तेपे ऽतिदुश्चरम्
कृतातिथ्यर्हणश्चापि नित्यं होमपरायणः
पत्रैः पुष्पैः फलैस्तोयैस्त्रिकालं हरिपूजकः
ध्यायन्नारायणं देवं शीर्णपर्णाशनो ऽभवत्
निरुच्छ्वास स्तपस्तप्तुं ततः समुपचक्रमे
षष्टिवर्षसहस्ताणि निरुच्छ्वासपरो ऽभवत्
तं दृष्ट्वा देवताः सर्वे वित्रस्ता वह्निता पिताः
अस्तुवन्देवदेवेशं शरणागतपालकम्