जन्मप्रभृति पापं वै संचितं हि विनश्यति
कृष्णाष्टम्यां विशेषेण वैधृतिर्जाह्नवीजले
अरुणोदयके स्नायी स तु जातिस्मरो भवेत्
संक्रान्त्यां पक्षयोरन्ते ग्रहणे चन्द्रसूर्ययोः
इन्दोर्लक्षगुणं प्रोक्तं रवेर्दशगुणं ततः
गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा
पापान्यस्यां हरति हि तिथौ सा दशैषाद्यगङ्गा पुण्यं दद्यादपि शतगुणं वाजिमेधक्रतोश्च
गोविन्दद्वादशीं प्राप्य तानि मे हन जाह्नवि
गुरुणा याति संयोगं तन्महत्वं तिथेः स्मृतम्
अथ देशविशेषेण स्नानस्य फलमुच्यते
कुरुक्षेत्राच्छतगुणा यत्र विन्ध्येन संयुता
सर्वत्र दुर्लभा गङ्गा त्रिषु स्थानेषु चाधिका
एषु स्नाता दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः
सप्तानां राजसूयानां फलं स्यादश्वमेधयोः
दशायुतानां तु गवां दानपुण्यं विदुर्बुधाः
स्नात्वा वाप्येषु गङ्गायां पुण्यमक्षयमाप्नुयात्
यस्मिन्नाविरभूत्पूर्वं वाराहाकृतिरच्युतः
अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः
अश्वमेधत्रयस्यापि स्नातः पुण्यं लभेन्नरः
नश्यन्ति सर्वजन्मोत्थं पातकं चापि मोहिनि
कपिलाष्टायुतस्यापि दानतुल्यफलं लभेत्
तीर्थे कनखले स्नात्वा धूतपापो व्रजेद्दिवम्
द्वयोर्विश्वजितोस्तत्र स्नानात्पुण्यं लभेन्नरः
सुपुण्यया महापुण्या स्वसा स्वस्रेव संगता
वामपादोद्भवा वापि सरयूर्मानसप्रसूः
पञ्चाश्वमेधफलदं स्नानं तत्र प्रकीर्तितम्
गोसहस्रस्य दानं च तत्र स्नानं समं द्वयम्
सोमतीर्थं ततः पुण्यं यत्रासौ नकुलो मुनिः
चंपकाख्यं पुण्यतीर्थं यद्गङ्गोत्तरवाहिनी
कलशाख्यं ततस्तीर्थं कलशादुत्थितो मुनिः