विमानेनार्कवर्णेन स व्रजेद्विष्णुमन्दिरम्
तपःसमं कार्तिके ऽपि गङ्गास्नाने फलं विदुः
माघस्नानाधिकं प्राहुः कमलासनपूर्वकाः
कार्तिके वापि वैशाखे इति प्राह पिता तव
स्नानैन याज्यवनिते त्रिमास्यापि च तत्फलम्
आर्द्रायां च चतुर्दश्यां गङ्गास्नानं सुदुर्लभम्
अमावस्यास्तथैतेषां गङ्गास्नाने सुदुर्लभाः
अमायां च तथाष्टम्यां माघासितदले सति
महोदये शतगुणं लक्षमर्द्धोदये स्मृतम्
मासत्रयस्नानफलं फाल्गुनाषाढ मासयोः
जन्मप्रभृति पापं वै संचितं हि विनश्यति
कृष्णाष्टम्यां विशेषेण वैधृतिर्जाह्नवीजले
अरुणोदयके स्नायी स तु जातिस्मरो भवेत्
संक्रान्त्यां पक्षयोरन्ते ग्रहणे चन्द्रसूर्ययोः
इन्दोर्लक्षगुणं प्रोक्तं रवेर्दशगुणं ततः
गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा
पापान्यस्यां हरति हि तिथौ सा दशैषाद्यगङ्गा पुण्यं दद्यादपि शतगुणं वाजिमेधक्रतोश्च
गोविन्दद्वादशीं प्राप्य तानि मे हन जाह्नवि
गुरुणा याति संयोगं तन्महत्वं तिथेः स्मृतम्
अथ देशविशेषेण स्नानस्य फलमुच्यते
कुरुक्षेत्राच्छतगुणा यत्र विन्ध्येन संयुता
सर्वत्र दुर्लभा गङ्गा त्रिषु स्थानेषु चाधिका
एषु स्नाता दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः
सप्तानां राजसूयानां फलं स्यादश्वमेधयोः
दशायुतानां तु गवां दानपुण्यं विदुर्बुधाः
स्नात्वा वाप्येषु गङ्गायां पुण्यमक्षयमाप्नुयात्
यस्मिन्नाविरभूत्पूर्वं वाराहाकृतिरच्युतः
अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः
अश्वमेधत्रयस्यापि स्नातः पुण्यं लभेन्नरः
नश्यन्ति सर्वजन्मोत्थं पातकं चापि मोहिनि