अनेकजन्मसंभूतं पुंसः पापं प्रणश्यति
अन्यस्थानकृतं पापं गङ्गातीरे विनश्यति
रात्रौ दिवा च संध्यायां गङ्गायां तु प्रयत्नतः
सर्वतीर्थेषु यत्पुण्यं सर्वेष्टायतनेषु च
महापातकसंयुक्तो युक्तो वा सर्वपातकैः
गङ्गा स्नानात्परं स्नानं न भूतं न भविष्यति
निहत्य कामजान्दोषान्कायवाक्चित्तसंभवान्
वर्षं स्नाति च गङ्गायां यो नरो भक्तिसंयुतः
आमृत्युं स्नाति गङ्गायां यो नरो नित्यमेव च
समस्तभोगसंयुक्तो विष्णुलोके महीयते
गङ्गायां स्नाति यो मर्त्यो नैरन्तर्येण नित्यदा
प्रातःस्नानाद्दशगुणं पुण्यं मध्यन्दिने स्मृतम्
कपिलाकोटिदानाद्धि गङ्गास्नानं विशिष्यते
हरिद्वारे प्रयागे च सिंधुसंगे फलाधिका
ते भित्वा मण्डलं यान्ति मोक्षं चेति रवेर्वचः
सो ऽपि यास्यति नाकं वै इत्याह वरुणश्च ताम्
कीर्तयिष्यामि वामोरु सावधाना निशामय
सशक्रलोके सुचिरं कालं तिष्ठेत्सगोत्रजः
नैरन्तर्येण विधिवद्गङ्गायां स्नाति यो नरः
सो ऽपि विष्णुपदं याति कुलानां शतमुद्धरन्
विमानेनार्कवर्णेन स व्रजेद्विष्णुमन्दिरम्
तपःसमं कार्तिके ऽपि गङ्गास्नाने फलं विदुः
माघस्नानाधिकं प्राहुः कमलासनपूर्वकाः
कार्तिके वापि वैशाखे इति प्राह पिता तव
स्नानैन याज्यवनिते त्रिमास्यापि च तत्फलम्
आर्द्रायां च चतुर्दश्यां गङ्गास्नानं सुदुर्लभम्
अमावस्यास्तथैतेषां गङ्गास्नाने सुदुर्लभाः
अमायां च तथाष्टम्यां माघासितदले सति
महोदये शतगुणं लक्षमर्द्धोदये स्मृतम्
मासत्रयस्नानफलं फाल्गुनाषाढ मासयोः