सप्तावपरान्परान्सप्त सप्ताथ परतः परान्
अश्रद्धयापि गङ्गाया यत्तु नामानुकीर्तनम्
सर्वावस्थां गतो वापि सर्वधर्मविवर्जितः
ब्रह्महा गुरुहागोघ्नः स्पृष्टो वा सर्वपातकैः
कदा द्रक्ष्यामि तां गङ्गां कदा स्नानं लभे ह्यहम्
अथ स्नानफलं देवि गङ्गायाः प्रवदामि ते
स्नातस्य गङ्गासलिले सद्यः पापं प्रणश्यति
स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम्
अपहत्य तमस्तीव्रं यथा भात्युदये रविः
एकेनैवापि विधिना स्नानेन नृपसुन्दरि
अनेकजन्मसंभूतं पुंसः पापं प्रणश्यति
अन्यस्थानकृतं पापं गङ्गातीरे विनश्यति
रात्रौ दिवा च संध्यायां गङ्गायां तु प्रयत्नतः
सर्वतीर्थेषु यत्पुण्यं सर्वेष्टायतनेषु च
महापातकसंयुक्तो युक्तो वा सर्वपातकैः
गङ्गा स्नानात्परं स्नानं न भूतं न भविष्यति
निहत्य कामजान्दोषान्कायवाक्चित्तसंभवान्
वर्षं स्नाति च गङ्गायां यो नरो भक्तिसंयुतः
आमृत्युं स्नाति गङ्गायां यो नरो नित्यमेव च
समस्तभोगसंयुक्तो विष्णुलोके महीयते
गङ्गायां स्नाति यो मर्त्यो नैरन्तर्येण नित्यदा
प्रातःस्नानाद्दशगुणं पुण्यं मध्यन्दिने स्मृतम्
कपिलाकोटिदानाद्धि गङ्गास्नानं विशिष्यते
हरिद्वारे प्रयागे च सिंधुसंगे फलाधिका
ते भित्वा मण्डलं यान्ति मोक्षं चेति रवेर्वचः
सो ऽपि यास्यति नाकं वै इत्याह वरुणश्च ताम्
कीर्तयिष्यामि वामोरु सावधाना निशामय
सशक्रलोके सुचिरं कालं तिष्ठेत्सगोत्रजः
नैरन्तर्येण विधिवद्गङ्गायां स्नाति यो नरः
सो ऽपि विष्णुपदं याति कुलानां शतमुद्धरन्