ततः शतगुणं पुण्यं गङ्गांभश्चुलुकाशनात्
ततो ऽधिकफलं गङ्गातोयपानादवाप्यते
स्वच्छन्दं यः पिबेदंभस्तस्य मुक्तिः करे स्थिता
नार्मदं दशभिर्मासैर्गाङ्गं वर्षेण जीर्यति
तदुत्तरफलावाप्तिर्गङ्गायामस्थियोगतः
यः पिबेत्तु यथेष्ठं हि गङ्गाम्भः स विशिष्यते
स स्वर्गं ज्ञानममलं योगं मोक्षं च विन्दति
गोमूत्रयावकाहाराद्गाङ्गपानं विशिष्यते
यदुक्तं हि पुराणेषु मुनिभिस्तत्त्वदर्शिभिः
गङ्गासंदर्शनात्तद्वत्सर्वपापैः प्रमुच्यते
पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च
पुमान्पुनाति पुरुषाञ्छतशो ऽथ सहस्रशः
शुभानामाश्रमाणां च गङ्गादर्शनजं फलम्
निर्घृणत्वं च नश्यन्ति गङ्गादर्शन मात्रतः
दांभिकत्वं नृणां गङ्गादर्शनादेव नश्यति
भक्त्या यदिच्छति नरः शाश्वतं पदमव्ययम्
अन्यत्र यद्भवेत्पुण्यं तद्गङ्गादर्शनाद्भवेत्
तद्भवेदेव गङ्गाया दर्शनाद्भक्तिभावतः
स्नानात्संस्पर्शना सेव्य यत्फलं लभते नरः
अथ ते स्मरणस्यापि गङ्गाया भूपभामिनि
अशुभैः कर्मभिर्युक्तान्मज्जमानान्भवार्णवे
योजनानां सहस्रेषु गङ्गां स्मरति यो नरः
स्मरणादेव गङ्गायाः पापसंघातपञ्जरम्
गच्छंस्तिष्ठन्स्वपन्ध्यायञ्जाग्रद्भुञ्जन् हसन् रुदन्
सहस्रयोजनस्थाश्च गङ्गां भक्त्या स्मरन्ति ये
ये च स्मरन्ति वै गङ्गां गङ्गाभक्तिपराश्च ये
भवनानि विचित्राणि विचित्राभरणाः स्त्रियः
मनसा संस्मरेद्यस्तु गङ्गां दूरस्थितो नरः
गङ्गा गङ्गा जपन्नाम योजनानां शते स्थितः
कीर्तनान्मुच्यते पापाद्दर्शनान्मङ्गलं लभेत्