उद्धर्त्तकामस्तं विद्यान्नररुपधरं हरिम्
तत्प्रवक्ष्यामि राजेन्द्र शृणुष्व सुसमाहितः
सर्वभूतहितो नित्यं मानृतं वद वै क्वचित्
कुरु पुण्यमहोरात्रं स्मर विष्णुं सनातनम्
द्वादशाष्टाक्षरं मन्त्रं जय श्रेयो भविष्यति
अनृतं कीदृशं प्रोक्तं दुर्जनाश्चापि कीदृशाः
स्मर्तव्यश्च कथं विष्णुस्तस्य पूजा च कीदृशी
को वा द्वादशवर्णश्च मुने तत्त्वार्थकोविद
साधु साधुमहाप्राज्ञ तव बुद्धिरनुत्तमा
यथार्थकथनं यत्तत्सत्यमाहुर्विपश्चितः
देशकालादि विज्ञाय स्वयमस्याविरोधतः
सर्वेषामेव जन्तूनामक्लेषजननं हि तत्
कर्मकार्यसहायत्वमकार्यपरिपन्थिता
इच्छानुवृत्तकथनं धर्माधर्मविवेकिनः
ये लोके द्वेषिणो मूर्खाः कुमार्गरतबुद्धयः
धर्माधर्मविवेकेन वेदमार्गानुसारिणः
हरि भक्तिकरं यत्तत्सद्भिश्च परिरञ्चितम्
सर्वं जगदिदं विष्णुर्वष्णुः सर्वस्य कारणम्
सर्वदेवमयो विष्णुर्विधिना पूजयामि तम्
सर्वभूतमयो विष्णुः परिपूर्णः सनातनः
समता शत्रुमित्रेषु वशित्वं च तथा नृप
एते सर्वे समाख्यातास्तपः सिद्धिप्रदा नृणाम्
अष्टाक्षरं महामन्त्रं सर्वपापप्रणाशनम्
विष्णोः प्रियकरं चैव सर्वसिद्धिप्रदायकम्
नमो भगवते प्रोच्य वासुदेवाय तत्परम्
द्वयोः समं फलं राजन्नष्टद्वादशवर्णयोः
शङ्खचचक्रधरं शान्तं नारायणमनामयम्
किरीटकुण्डलधरं नानामण्डनशोभितम्
पीताम्बरधरं देवं सुरासुरनमस्कृतम्
अन्तर्यामी ज्ञानरुपी परिपूर्णः सनातनः