गाङ्गेयं तु हरेत्तोयं पापमामरणान्तिकम्
न वर्ज्यं जाह्नवीतोयं न वर्ज्यं तुलसीदलम्
गङ्गाजलानां न तु शक्तिरस्ति वक्तुं गुणाख्यापरिमाणमत्र
गङ्गातोयस्य माहात्म्यात्सो ऽप्यत्र फलभाग्भवेत्
विशिष्टा यत्प्रयच्छन्ति भक्तेभ्यो वाञ्छितं फलम्
कामधेनु स्तनोद्भूतान्भुङ्क्ते दिव्यरसान्दिवि
अपहत्य तमस्तीव्रं भाति सूर्यो यथोदये
वीक्ष्य गङ्गां भवेत्पूतः पुरुषो नात्र संशयः
सर्पवत्कञ्चुकं मुक्त्वा पापहीनो भवेत्स वै
गङ्गांभसा विनश्यन्ति विष्णुभक्त्या यथापदः
ब्रह्महत्यादिपापानि हाहेत्युक्त्वा प्रयान्त्यलम्
यः पुमान्स विमुच्येत पातकैः पूर्वसंचितैः
स एव देवैर्मर्त्यैश्च पूजनीयो महर्षिभिः
वास एव हि गङ्गायां सर्वतो ऽपि विशिष्यते
स्वर्गमोक्षप्रदा गङ्गा सुखसेव्या यतः स्थिता
यत्फलं लभते मर्त्यो गङ्गायां तद्दिनेन वै
गङ्गातीरे सुखं तिष्ठेत्स वै मोक्षस्य भाजनम्
प्रतिमासं चतुर्दश्यामष्टम्यां चैव सर्वदा
कृच्छ्राणि सर्वदा कृत्वा यत्फलं सुखमश्नुते
गङ्गासेवापरस्येह दिवसार्द्धेन यत्फलम्
सर्वयज्ञतपोदानयोगस्वाध्यायकर्मभिः
यत्पुण्यं सत्यवचनैर्नैष्ठिकब्रह्मचारिणाम्
समातृपितृदाराणां कुलकोटिमनन्तकम्
संतोषः परमैश्वर्यं तत्त्वज्ञानं सुखात्मनाम्
कृतकृत्यो भवेन्मर्त्यो गङ्गां प्राप्यैव केवलम्
भक्त्या तज्जलसंस्पर्शी तज्जलं पिबते च यः
दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने
देहं त्यक्त्वा नरास्ते तु मोदन्ते शिवसन्निधौ
अमृतान्युपभुञ्जन्ति तथा गङ्गाजलं नराः
अन्नदानैश्च गोदानैः स्वर्णदानादिभिस्तथा