विमोहिनीं स्वामिसुतोञ्ज्झितां च जगाद वाक्यं विदुतामवीराम्
गतिं ते कारयिष्यामि तीर्थस्नानादिकर्मणा
विससर्ज नमस्कृत्य मोहिनीपितरं मुदा
जगाम लोकं तमसः परमव्यक्तवर्त्मना
मोहिनीं समनुग्राह्यां मत्वा हृदि विचारयन्
मुहूर्त्तं ध्यानमापन्नो बुबुधे कारणं गतेः
उवाच श्लक्ष्णया वाचा सर्वलोकहिते रतः
येन विज्ञातमात्रेण पापिनां गतिरुत्तमा
न तस्या सदृशं किञ्चिद्विद्यते पापनाशनम्
प्रणता मोहिनी प्राह गङ्गास्नानकृतादरा
सर्वेषां च पुराणानां संमतं वद सांप्रतम्
पश्चात्पापविनाशिन्यां स्नातुं यास्ये त्वया सह
माहात्म्यं कथयामास गङ्गायाः पापनाशनम्
येषां भागीरथी पुण्या समीपे वर्तते सदा
तां गतिं न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत्
शेषे गङ्गां निषेवन्ते ते ऽपि यान्ति परां गतिम् न तत्फलमवाप्रोति गङ्गां सेव्य यदाप्नुयात्
मासमेकं तु गङ्गायां स्नातस्तुल्यफलावुभौ
तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः
प्रसह्य तारयेद्गुङ्गा गच्छतो निरये ऽशुचौ
ये ऽभिगच्छन्ति सततं गङ्गामभिमतां सुरैः
देवैः सेंद्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकालं समृद्ध्ये
यावत्पुण्या ह्यमावास्या दिनानि दश मोहिनि
पाताले सन्निधानं तु कुरुते स्वयमेव हि
पञ्चम्यं तानि सा स्वर्गे भवेत्सन्निहिता सदा
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गा विशिष्यते
गङ्गायां प्रतिमुञ्चन्ति सा तु देवी न कुत्रचित्
पापशीला अपि नराः परां गतिमवाप्नुयुः
स एव द्रवरूपेण गङ्गांभो नात्र संशयः
गङ्गांभसा च पूयन्ते नात्र कार्या विचारणा