एवं विमृश्य क्षिप्तिपालदे वान्प्रणम्य हृष्टा च पुरोधसं स्वम्
कृच्छ्रान्तरूपा च दिनं च भुङ्क्ते प्रकृष्टरूपा नरकाय नॄणाम्
विभोदितो रुक्मविभूषणस्य मत्तेभसंस्थः पटहः सुघैषः
दृष्टे कार्ये जनः सर्वः प्रत्ययं कुरुते त्विति
अस्पृष्टमुदयं नॄणां मोहनाय भविष्यति
सत्यं हि ते नाम विशालनेत्रे यन्मोहिनीत्येव जनो ब्रवीति
इत्येव मुक्त्वा तनयो विवस्वतः प्रणम्य तां ब्रह्मसुतां प्रहृष्टः
गतेषु देवेषु विमोहिनी सा ब्रह्माणमासाद्य सुरासुरेशम्
दग्धं शरीरं मम लोकनाथ पुनः प्रपत्स्ये ऽथ तथा कुरुष्व
जितो हि राज्ञा शमनः पुराद्य कृतो जयी तात तव प्रभावात्
भूयामहं जगन्नाथ ब्रह्मणं सांत्ययस्व भोः
ब्राह्मणं सांत्वयामास पुनरेव सुताकृते
तव चास्या महाभाग सर्वलोकहिताय च
पुनः शरीरं याचेत तदाज्ञां देहि मानद
त्वया मया च सपाल्या कृतकार्या तपस्विनी
तातो ऽहमस्या भूयो ऽपि देहमुत्पादयाम्यहम्
यथा शुद्ध्येति विप्रेन्द्र तथैवाशु विधीयताम्
याज्याया देहयोगार्थमादिदेश मुदान्वितः
कमण्डलुजलेनौक्षन्मोहिन्या देहभस्म तत्
प्रणम्य तातं च वसोः पुरोधसो जग्राह पादौ विनयेन नत्वा
विमोहिनीं स्वामिसुतोञ्ज्झितां च जगाद वाक्यं विदुतामवीराम्
गतिं ते कारयिष्यामि तीर्थस्नानादिकर्मणा
विससर्ज नमस्कृत्य मोहिनीपितरं मुदा
जगाम लोकं तमसः परमव्यक्तवर्त्मना
मोहिनीं समनुग्राह्यां मत्वा हृदि विचारयन्
मुहूर्त्तं ध्यानमापन्नो बुबुधे कारणं गतेः
उवाच श्लक्ष्णया वाचा सर्वलोकहिते रतः
येन विज्ञातमात्रेण पापिनां गतिरुत्तमा
न तस्या सदृशं किञ्चिद्विद्यते पापनाशनम्
प्रणता मोहिनी प्राह गङ्गास्नानकृतादरा