यया पूता महापापा गच्छन्ति हरिमन्दिरम्
वेधो निशीथे देवानामुपकाराय मोहिनी
पारणं च त्रयोदश्यामुपवासविनाशनम्
तास्तु ह्येकादशीभिन्ना उपोष्यन्ते च वैष्णवैः
नित्यं पक्षद्वये प्रोक्तं विधिना त्रिदिनात्मके
द्वादश्यां हि व्रतं कार्यं निरंबु समुपोषणम्
नैवेद्यं वा हरेः प्रोक्तं स्वाहारात्पादसंमितम्
निष्कामा मध्यरात्रे च विद्धां मुञ्चन्ति याम्यया
यमस्य तस्याः प्रान्ति तु स्थितिः कार्या त्वयानघे
सूर्येन्दुचारा तिथ्यास्तु दशम्याः प्रान्तगामिनी
अरुणोदयमारभ्य यावत्सूर्योदयो भवेत्
यः कश्चित्कुरुते विद्धं त्वया ह्येकादशीव्रतम्
मुहूर्तद्वयमात्रं तु ज्ञेयं चात्रारुणोदयम्
ज्ञेयास्ते ह्रस्वदीर्घत्वे त्रैराशिक विधानतः
सब्ध्वोपवासिनां पुण्यं स्वस्था भव शुचिस्मिते
पाखण्डानां विवृद्ध्यर्थं पापसंचनाय च
दत्तं ते मोहिनि स्थानं प्रत्यूषसमयाङ्कितम्
तेषां भवेद्यत्सुकृतं शुभे फलं भुङ्क्ष्व प्रसन्ना भव भूसुरे त्वम्
मेने कृतार्थं निजजीवितं च स्वपापतीर्थाभिनिषेवणेन
चैतन्यमात्रे पवनात्मके ऽस्मिन् संमार्जितो भूपकृतस्तु पन्थाः
एवं विमृश्य क्षिप्तिपालदे वान्प्रणम्य हृष्टा च पुरोधसं स्वम्
कृच्छ्रान्तरूपा च दिनं च भुङ्क्ते प्रकृष्टरूपा नरकाय नॄणाम्
विभोदितो रुक्मविभूषणस्य मत्तेभसंस्थः पटहः सुघैषः
दृष्टे कार्ये जनः सर्वः प्रत्ययं कुरुते त्विति
अस्पृष्टमुदयं नॄणां मोहनाय भविष्यति
सत्यं हि ते नाम विशालनेत्रे यन्मोहिनीत्येव जनो ब्रवीति
इत्येव मुक्त्वा तनयो विवस्वतः प्रणम्य तां ब्रह्मसुतां प्रहृष्टः
गतेषु देवेषु विमोहिनी सा ब्रह्माणमासाद्य सुरासुरेशम्
दग्धं शरीरं मम लोकनाथ पुनः प्रपत्स्ये ऽथ तथा कुरुष्व
जितो हि राज्ञा शमनः पुराद्य कृतो जयी तात तव प्रभावात्