देवापकारो विप्रर्षे न क्षमो बाहुजन्मना
भूसुराणां विशेषेणं यातास्ते तत्सहायकाः
तत्प्रापितं भूसुर भूपभर्तुर्निजस्य पुत्रस्य तथा सपत्न्याः
तत्पापवेगेन बभूव विद्रुता भस्मावशेषा तव शापदग्धा
न स्वार्थकामा लभते ऽवमानं कथं द्विजातो ऽपकृतिं क्षमस्व
यस्मिन्कृते ब्राह्मण मोहिनीयं बुद्धिं त्यजेत्क्रूरतरां त्वयीज्ये
उवाच देवं त्रिदशाधिनाथं विमोहिनीदेहकृतं द्विजेन्द्रः
न लोकेषु स्थितिस्तस्मात्प्राणिभिः संकुलेषु च
तद्दास्यमि तव प्रीत्या त्वं हि पूज्यतरो मम
देवकार्यं च भविता मोहिनीकृतत्यमेव च
जङ्गमाजङ्गमैर्भूमिर्व्याप्ता द्वीपवती सदा
नाकः सुकृतिभिर्जीवैर्नरकाः पापकर्मभिः
ततो ब्रह्मा सुरैः सर्वैः संमन्त्र्य नृपसत्तम
तच्छ्रुत्वा मोहिनी वाक्यं पितुराज्ञाविधायिनी
पुरोधसा समेतानो देवानां लोकसाक्षिणाम्
प्रणिपातशतेनापि प्रसन्नेन हृदा सुराः
एकादश्याः प्रभावेण सर्वेषां पापिनां गतिः
पतिः सपत्नी पुत्रश्च मया वैकुण्ठगाः कृताः
यथा हरिदिनं दुष्टं जायते मम मानदाः
एतत्प्रयाचे ददत स्वार्थार्थं तद्धि नान्यथा
यया पूता महापापा गच्छन्ति हरिमन्दिरम्
वेधो निशीथे देवानामुपकाराय मोहिनी
पारणं च त्रयोदश्यामुपवासविनाशनम्
तास्तु ह्येकादशीभिन्ना उपोष्यन्ते च वैष्णवैः
नित्यं पक्षद्वये प्रोक्तं विधिना त्रिदिनात्मके
द्वादश्यां हि व्रतं कार्यं निरंबु समुपोषणम्
नैवेद्यं वा हरेः प्रोक्तं स्वाहारात्पादसंमितम्
निष्कामा मध्यरात्रे च विद्धां मुञ्चन्ति याम्यया
यमस्य तस्याः प्रान्ति तु स्थितिः कार्या त्वयानघे
सूर्येन्दुचारा तिथ्यास्तु दशम्याः प्रान्तगामिनी