यत्र यत्र तु गच्छामि तत्र तत्र क्षिपन्ति माम्
भवदाज्ञां समादाय गता रुक्मविभूषणम्
क्लेशयित्वा तु भर्तारं पुत्रं हत्वा वरासिना
न गतिर्विद्यते देव पापाया मम सांप्रतम्
विप्रवाक्यहताना च दग्धानां चित्रभानुना
शतह्रदाविपन्नानां मुक्तिदा स्वर्णदी पितः
प्रसादयसि मत्प्रीत्या तर्हि मे विहिता गतिः
शिवेन्द्रधर्मसूर्याग्निदेवेशैर्मुनिभिर्युतः
तत्र गत्वा महीपाल ब्रह्मा देवादिभिर्वृतः
भूप रुद्रादिदेवैस्तु पूज्यो मान्यः पितामहः
कार्ये महति संप्राप्ते ह्यसाध्ये भुवनत्रये
स द्विजो वेदवेदाङ्गपरगस्तपसि स्थितः
समुत्थाय नमश्चक्रे ब्रह्माणं तान्मुनीन्सुरान्
ततः प्रसन्नो भगवान् लोककर्त्ता जगद्गुरुः
तात विप्र सदाचार परलोकोपकारक
मया संप्रेषिता ब्रह्मन् रुक्माङ्गदविमोहने
वैकुण्ठं संकुलं प्रेक्ष्य लोकैः सर्वैर्नि राकुलैः
निशामय धरादेव यद्ब्रवीमि तवाग्रतः
अनया निकषाश्याङ्ग्या परीक्ष्य स्वर्णभूषणः
राज्ञाप्रहतया भक्त्या हरिवासरपालनात्
देवापकारो विप्रर्षे न क्षमो बाहुजन्मना
भूसुराणां विशेषेणं यातास्ते तत्सहायकाः
तत्प्रापितं भूसुर भूपभर्तुर्निजस्य पुत्रस्य तथा सपत्न्याः
तत्पापवेगेन बभूव विद्रुता भस्मावशेषा तव शापदग्धा
न स्वार्थकामा लभते ऽवमानं कथं द्विजातो ऽपकृतिं क्षमस्व
यस्मिन्कृते ब्राह्मण मोहिनीयं बुद्धिं त्यजेत्क्रूरतरां त्वयीज्ये
उवाच देवं त्रिदशाधिनाथं विमोहिनीदेहकृतं द्विजेन्द्रः
न लोकेषु स्थितिस्तस्मात्प्राणिभिः संकुलेषु च
तद्दास्यमि तव प्रीत्या त्वं हि पूज्यतरो मम
देवकार्यं च भविता मोहिनीकृतत्यमेव च