सेयं पापशरीरा हि हत्यायुतसमन्विता
प्रजारञ्जनशीलं च हरिवासरसेविनम्
परार्थत्यक्तकामं च सदा मखनिषेविणम्
व्यसनैः सप्तभिर्घोरैरनाक्रान्तं महीपतिम्
यो ऽस्याः पक्षेतु वर्तेत देवो वा दानवो ऽपि वा
मोहिन्या रक्षणे यस्तु प्रयत्नं कुरुते सुराः
तस्य तज्जायते पापं यन्मोहिन्यां व्यवस्थितम्
क्रोधेन संवीक्ष्य विधिप्रसूतां चिक्षेप तन्मूर्घ्न्यनलप्रकाशम्
संपश्यतां नाकनिवासिनां तु तृण्या यथा वह्निशिखावलीढा
तावत्स वह्निर्द्विजवाक्यमृष्टो भस्मावशेषां प्रमदां चकार
भर्त्सिता देवदूतेन स्थितिस्ते ऽत्र न पापिनी
हरिवासरलोपिन्यां वासस्ते न त्रिविष्टपे
एवमुक्त्वा तु तां वायुः क्रूरं वचनपद्भुतम्
एवं संताडिता राजन् देवदूतेन मोहिनी
तत्र धर्माज्ञया सा तु दूतैः संताडिता चिरम्
पापे धर्माङ्गदः पुत्रो घातितः पतिपाणिना
प्रजाहितं स्थिरप्रज्ञं महेन्द्रवरुणोपमम्
प्राकृतस्यापि पुत्रस्य हिंसायां ब्रह्महा भवेत्
एवं निर्भत्सिता दूतैर्यमस्य नृपसत्तम
ब्रह्मदण्डहतायास्तु देहस्पर्शेन यातनाः
ततस्ते नरका राजन् धर्मराजमुपागताः
देवदेव जगन्नाथ धर्मराज दयां कुरु
यस्याः स्पर्शनतो नाथ भस्मभूताः क्षणादहो
तच्छ्रुत्वा वचनं तेषां धर्मराजो ऽतिविस्मितः
यो ब्रह्मदण्डनिर्दग्धः पुमान् स्त्री वा च तस्करः
तस्मादिमां महापापां भर्तुर्वचनलोपिनीम्
निःसारयत मे बापि देहो ज्वलति दर्शंनात्
प्रहरन्तो ऽस्त्रशस्त्रैश्च बहिश्चक्रुर्यमक्षयात्
पातालं प्रययौ तत्र पातालस्थैर्निवारिता
जनकस्यान्तिकं गत्वा दुःखं स्वं संन्यवेदयत्