ऋक्षेण संयुतायास्तु ज्येष्ठकुण्डाप्लवेन वा
व्याहृते कथितं विप्रैः सेयमद्य सुनिष्ठुरा
भर्तुर्वाक्यं व्यपोह्यैव घातयित्वा सुतं प्रियम्
विष्णुधर्मप्रलोप्त्रीयं बहुपापसमन्विता
भवन्तो न्याययुक्तेषु धर्मयुक्तेषु तत्पराः
धर्माधाराः स्मृता देवा धर्मो वेदेसमास्थितः
यद्ब्रवीति पतिः किञ्चित्तत्कार्यमाविशङ्कया
शुश्रूषा सा हि विज्ञेया न शुश्रूषा हि सेवनम्
सत्यस्य साधनार्थाय शपथैर्यन्त्रितो नृपः
तेन मोक्षं गतो राजा पापमस्यां विसृज्य च
सेयं पापशरीरा हि हत्यायुतसमन्विता
प्रजारञ्जनशीलं च हरिवासरसेविनम्
परार्थत्यक्तकामं च सदा मखनिषेविणम्
व्यसनैः सप्तभिर्घोरैरनाक्रान्तं महीपतिम्
यो ऽस्याः पक्षेतु वर्तेत देवो वा दानवो ऽपि वा
मोहिन्या रक्षणे यस्तु प्रयत्नं कुरुते सुराः
तस्य तज्जायते पापं यन्मोहिन्यां व्यवस्थितम्
क्रोधेन संवीक्ष्य विधिप्रसूतां चिक्षेप तन्मूर्घ्न्यनलप्रकाशम्
संपश्यतां नाकनिवासिनां तु तृण्या यथा वह्निशिखावलीढा
तावत्स वह्निर्द्विजवाक्यमृष्टो भस्मावशेषां प्रमदां चकार
भर्त्सिता देवदूतेन स्थितिस्ते ऽत्र न पापिनी
हरिवासरलोपिन्यां वासस्ते न त्रिविष्टपे
एवमुक्त्वा तु तां वायुः क्रूरं वचनपद्भुतम्
एवं संताडिता राजन् देवदूतेन मोहिनी
तत्र धर्माज्ञया सा तु दूतैः संताडिता चिरम्
पापे धर्माङ्गदः पुत्रो घातितः पतिपाणिना
प्रजाहितं स्थिरप्रज्ञं महेन्द्रवरुणोपमम्
प्राकृतस्यापि पुत्रस्य हिंसायां ब्रह्महा भवेत्
एवं निर्भत्सिता दूतैर्यमस्य नृपसत्तम
ब्रह्मदण्डहतायास्तु देहस्पर्शेन यातनाः