तस्मिंल् लयम् अनुप्राप्ते किं नु मे जीविते फलम्
स्वामिनं तु परित्यज्य प्रयाति नरकं ध्रुवम्
भृत्या वेतनभोक्तारो जायन्ते भूतले हयाः
कथं वरं तु गृह्णामि भवतां नाकवासिनाम्
अनृणास्तु भविष्यामः कृत्वा चोपकृतिं तव
तस्य त्वं फलभाग्देवि तादृशार्थे कृतस्य तु
नृपतेराजगामाथ पुरोधाः पावकप्रभः
द्वादशाब्दे ततः पूर्णे निर्गतो जलमध्यतः
सक्रोधो मुनिशार्दूलो देववृन्दमुपागतः
धिगिमां धिग्देवसंघं कर्म धिक्पापसंज्ञितम्
भवन्तो यच्च दातारो मोहिन्या वाञ्छितं वरम्
नास्मा हि लोके भवतीह शुद्धिः समिद्धवह्नौ पतने ऽपि देवाः
न चापि चास्या भवतीह शुद्धिः समिद्भवह्नौ पतने ऽपि देवाः" प्रियायुतं मोक्षपदं निहत्य चकार भूमिं नृपवर्जितां च
न चापि राज्ञो निकटे च देवा नाप्येतु विष्णोः पदमव्ययं यत्
धिरजीवनं कर्ग्मविगर्हिताया देवाः सदा पापसमारतायाः
हत्वा धरां समस्तां वा कां गतिं यास्यते सुराः
सर्वदाप्यनया प्रोक्तं भुज्यतां हरिवासरे
भुज्यतां वासरे विष्णोर्हन्यतां गौर्द्विजान्विता
एतदज्ञानिनां प्रोक्तं ज्ञाननां तु न निर्णयः
तस्यापि शुद्धिर्गदिता प्राणायामशतेन हि
ऋक्षेण संयुतायास्तु ज्येष्ठकुण्डाप्लवेन वा
व्याहृते कथितं विप्रैः सेयमद्य सुनिष्ठुरा
भर्तुर्वाक्यं व्यपोह्यैव घातयित्वा सुतं प्रियम्
विष्णुधर्मप्रलोप्त्रीयं बहुपापसमन्विता
भवन्तो न्याययुक्तेषु धर्मयुक्तेषु तत्पराः
धर्माधाराः स्मृता देवा धर्मो वेदेसमास्थितः
यद्ब्रवीति पतिः किञ्चित्तत्कार्यमाविशङ्कया
शुश्रूषा सा हि विज्ञेया न शुश्रूषा हि सेवनम्
सत्यस्य साधनार्थाय शपथैर्यन्त्रितो नृपः
तेन मोक्षं गतो राजा पापमस्यां विसृज्य च