तन्न सिद्धं वरारोहे स प्रयातो ऽधुनाभवम्
एकादशी महापुण्या मोहिनी माधवे सिते
तस्यैवाध्युष्टिरतुला यत्सत्याचच्चलितो न हि
कर्मणा मनसा वाचा पुत्रव्यापादने मतिम्
तादृशं निकषं प्रोक्ष्य भगवान्मधुसूदनः
पुत्रस्य च प्रियायाश्च भावं प्रेक्ष्य नृपस्य च
सदेहाः क्षीणकर्माणो ह्य् अङ्गारो ऽग्निरिवाहितः
सर्वयत्नेन सुभगे दोषः को ऽत्र तवाधुना
सिद्धौ वाप्यथ वासिद्धौ कर्मकृत्स्याद्दृथा न हि
सद्भावे घटमानस्य यदि कर्म न सिद्ध्यति
यो न तस्मै प्रयच्छेत जीवनं जीवनाय वै
तस्माद् देयं वरारोहे अभीष्टं वरसुन्दरि
किं न कुर्वन्ति विबुधास् त्वया सह वरानने
विबुधैर् एवम् उक्ता तु मोहिनी लोकमोहिनी
धिगिदं जीवितं मह्यं येन कार्यं न साधितम्
न तु लुप्तं हरिदिनं न भुक्तं हरिवासरे
गतो मूर्ध्नि पदं दत्वा मम रुक्माङ्गदो हरिम्
हंसं शुचिपदं व्योम प्रणवं बीजमव्ययम्
शून्यं वियत्स्वरूपं च ध्येयध्यानविवर्जितम्
परं धाम मनोग्राह्यं पुरुषाख्यं जगन्मयम्
तस्मिंल् लयम् अनुप्राप्ते किं नु मे जीविते फलम्
स्वामिनं तु परित्यज्य प्रयाति नरकं ध्रुवम्
भृत्या वेतनभोक्तारो जायन्ते भूतले हयाः
कथं वरं तु गृह्णामि भवतां नाकवासिनाम्
अनृणास्तु भविष्यामः कृत्वा चोपकृतिं तव
तस्य त्वं फलभाग्देवि तादृशार्थे कृतस्य तु
नृपतेराजगामाथ पुरोधाः पावकप्रभः
द्वादशाब्दे ततः पूर्णे निर्गतो जलमध्यतः
सक्रोधो मुनिशार्दूलो देववृन्दमुपागतः
धिगिमां धिग्देवसंघं कर्म धिक्पापसंज्ञितम्