मोहिन्यां प्रतिबुद्धायां करिष्यामो दिवाकरे
ततो देव गणाः सर्वे शतक्रतुपुरोगमाः
समायाता महीपाल नारीं तां प्रतिबोधितुम्
तेजोहीनां निरानन्दां शुष्कतोयां नदीमिव
पराजितो यथा मर्त्यः प्रल्मानकुसुमं यथा
गतशालिस्तु केदारो निष्प्र यथा
मन्थानं नवनीते वा उद्धृते धरणीपते
हत नाथां तु युवतीं धान्यहीनां प्रजां यथा
पृथ्वीं भूपालहीना वा मन्त्रही यथा नृप
जलहीनं यथा कुंभं पङ्कस्थं गोपतिं यथा
भग्नक्रियं यथा वैद्यं भग्नशाखं यथा द्रुमम्
विधूम इव सप्तार्चिर्विरश्मिरिव भास्करः
अतृप्तः कान्तया कान्तः पन्नगश्च विषोज्झितः
शिरोभ्रष्टा यथा माला पर्वतो धातुवर्जितः
स्वरहीनं यथा साम पद्महीनं यथा सरः
ज्ञानं ममत्वसंयुक्तं पुमांसं प्रकृतिं विना
तेजोहीनां तथापश्यन् मोहिनीं ते दिवौकसः
आक्रोशवचनैः क्रूरैः पुत्रहत्यासमन्विताम्
स्ववाक्यपालनां चण्डामुचुर्देवाः समागताः
नहि माधवभक्तानां विद्यते मानखण्डनम्
तन्न सिद्धं वरारोहे स प्रयातो ऽधुनाभवम्
एकादशी महापुण्या मोहिनी माधवे सिते
तस्यैवाध्युष्टिरतुला यत्सत्याचच्चलितो न हि
कर्मणा मनसा वाचा पुत्रव्यापादने मतिम्
तादृशं निकषं प्रोक्ष्य भगवान्मधुसूदनः
पुत्रस्य च प्रियायाश्च भावं प्रेक्ष्य नृपस्य च
सदेहाः क्षीणकर्माणो ह्य् अङ्गारो ऽग्निरिवाहितः
सर्वयत्नेन सुभगे दोषः को ऽत्र तवाधुना
सिद्धौ वाप्यथ वासिद्धौ कर्मकृत्स्याद्दृथा न हि
सद्भावे घटमानस्य यदि कर्म न सिद्ध्यति