अन्तर्द्धानगतस्तस्थौ व्योम्नि धैर्यावलोककः
धर्माङ्गदस्य वीरस्य तस्य रुक्माङ्गदस्य तु
वचने भुङ्क्ष्व भुङ्क्ष्वेति मोहिन्या व्याहृते तदा
तं दृष्ट्वा खङ्गहस्तं तु पितरं धर्म्मंभूषणः
वदनं प्रेक्ष्य चादीनं जनन्या नृपपुङ्गवः
कंबुग्रीवां समानां तु सुवर्णा सुकोमलाम्
पितृभक्त्या युतेनैव मातृभक्त्याधिकेन वै
गृहीतखङ्गे जगदीशनाथे चचाल पृथ्वीं सनगा समग्रा
निपेतुरुल्काः शतशो धरायां निर्घातयुक्ताः सतडित्खमध्यात्
निरर्थकं जन्म ममाधुनाभूत्कृतं तु दैवेन दजगद्विधायिना
हरेर्दिने पापभयापहे तु तृणैः समाहं भविता त्रिविष्टपे
सत्वाधिको यास्यति मोक्षमार्गं गन्तास्मि पाप नरकं सुदारुणम्
मोहिनी मोहसंयुक्ता पपात धरणीतले
ग्रीवायाश्छेदनार्थाय वृषाङ्गदसुतस्य तु
प्रचिच्छिदे यावदतीव हर्षाद्धैर्यान्वितो रुक्मविभूषणो ऽसौ
तुष्टो ऽस्मि तुष्टो ऽस्मि न संशयो ऽत्र गच्छस्व लोकं मम लोकनाथ
त्रैलोक्यपूज्यां विमलां च शुक्लां कृत्वा पदं मूर्ध्नि यमस्य भूप
संस्पृष्टमात्रो विरजा बभूव प्रियासमेतस्तनयेन युक्तः
विहाय लक्ष्मीमवनीप्रसूतां विहाय दासीःसुधनं स कोशम्
जगाम देहं मधुसूदनस्य ततोंऽबरात्पुष्पचयः पपात
राजन् जगुर्गीतमतीव रम्यं देवाङ्गनाः संननृतुर्मुदान्विताः
हरेस्तनौ भूमिपतिं प्रविष्टं सदारपुत्रं स्वलिपिं प्रमार्ज्य
भीतः पुनः प्राप्य पितामहान्तिकं प्रोवाच देवं चतुराननं रुदन्
विधेहि चान्यत्प्रकरोमि तात निदेशनं मास्तु मदीय दण्डम्
मोहिनी निष्फला जाता वन्ध्या स्त्री जनने यथा
लोकः प्रयाति वैकुंण्ठं न मां कश्चित्प्रपद्यते
तथापि सर्वभूतानां न बुद्धिः परिवर्तते
प्रयान्ति परमं लोकं लुप्तपापाः पितामह
नायाति तव सामीप्यं न भुङ्क्ते लोकगर्हिता
रविपुत्रवचः श्रुत्वा प्रोवाच कमलासनः