पितुरर्थे हता ये तु मातुरर्थे हतास्तथा
भूम्यर्थे पार्थिवार्थे वा देवतार्थे तथैव च
तदलं परितापेन जहि मां त्वं वरासिना
धर्मार्थे तनयं हन्याद्भार्यां वापि महीपते
अश्वमेघे मखवरे न दोषो जायते नृप
तत्त्वया ह्यविचारेण कर्त्तव्यं वचनं ध्रुवम्
विमोचयेथा नृपते सुघोराद्वाक्यानृतान्मोहिनिहस्तयोगात्
यशः प्काशाद्भविता हि कीर्तिस्तथाक्षया तात न संशयो ऽत्र
संध्यावलीमुखं प्रेक्ष्य प्रहृष्टकमलोपमम्
मा भुङ्क्ष्व तनयं हिंस चेत्याग्रहसमन्वितम्
अन्तर्द्धानगतस्तस्थौ व्योम्नि धैर्यावलोककः
धर्माङ्गदस्य वीरस्य तस्य रुक्माङ्गदस्य तु
वचने भुङ्क्ष्व भुङ्क्ष्वेति मोहिन्या व्याहृते तदा
तं दृष्ट्वा खङ्गहस्तं तु पितरं धर्म्मंभूषणः
वदनं प्रेक्ष्य चादीनं जनन्या नृपपुङ्गवः
कंबुग्रीवां समानां तु सुवर्णा सुकोमलाम्
पितृभक्त्या युतेनैव मातृभक्त्याधिकेन वै
गृहीतखङ्गे जगदीशनाथे चचाल पृथ्वीं सनगा समग्रा
निपेतुरुल्काः शतशो धरायां निर्घातयुक्ताः सतडित्खमध्यात्
निरर्थकं जन्म ममाधुनाभूत्कृतं तु दैवेन दजगद्विधायिना
हरेर्दिने पापभयापहे तु तृणैः समाहं भविता त्रिविष्टपे
सत्वाधिको यास्यति मोक्षमार्गं गन्तास्मि पाप नरकं सुदारुणम्
मोहिनी मोहसंयुक्ता पपात धरणीतले
ग्रीवायाश्छेदनार्थाय वृषाङ्गदसुतस्य तु
प्रचिच्छिदे यावदतीव हर्षाद्धैर्यान्वितो रुक्मविभूषणो ऽसौ
तुष्टो ऽस्मि तुष्टो ऽस्मि न संशयो ऽत्र गच्छस्व लोकं मम लोकनाथ
त्रैलोक्यपूज्यां विमलां च शुक्लां कृत्वा पदं मूर्ध्नि यमस्य भूप
संस्पृष्टमात्रो विरजा बभूव प्रियासमेतस्तनयेन युक्तः
विहाय लक्ष्मीमवनीप्रसूतां विहाय दासीःसुधनं स कोशम्
जगाम देहं मधुसूदनस्य ततोंऽबरात्पुष्पचयः पपात