स्वकर्मणो विरोधेन भक्तिः कार्या जनार्दने
न तस्य तुष्यते विष्णुराचारेणैव तुष्यते
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः
सदाचारविहीनानां धर्मा अप्यसुखप्रदाः
यत्तु पृष्टं त्वया भूयस्तत्सर्वं गदितं मया
नारायणमणीयांसं सुखमेष्यसि शाश्वकतम्
द्वयोरन्तरदृग्याति नरकारन्कोटिशः खलः
भेदकृद्दुःखमाप्नोति इह लोके परत्रघ च
वसन्ति नरके ते तु राजंस्तव पितामहाः
गङ्गा सर्वाणि पापानि नाशयत्येव भूपते
नयति विष्णुसदनं स्पृष्टा गाङ्गेनर वारिणा
स सर्वपापनिर्मुक्तः प्रयाति भवनं हरेः
तानि कर्माणिर नश्यन्ति गङ्गाबिन्द्वभिषेचनात्
धर्मात्मानं धर्मराजः सद्यश्वान्तर्दधेतदा
निक्षिप्य पृथिवीं सर्वां सचिवेषु ययौ वनम्
पश्चिमे तुहिनाक्रान्ते शृङ्गेषोडशयोजने
तपस्तप्त्वानयामास गङ्गां त्रैलोक्यपावनीम्
कथमानीतवान्गङ्गामेतन्मे वक्तुमर्हसि
गच्छन्हिमाद्रिं तपसे प्राप्तो गोदावरी तटम्
कृष्णसारसमाकीर्णं मातङ्गगणसेवितम्
व्रजद्वराहनिकरं चमरीपुच्छवीचितम्
प्रवर्द्धितमहावृक्षं मुनिकन्याभिरादरात्
मालतीयूथिकाकुन्दचम्पकाशअवत्थभूषितम्
वेदशास्त्रमहाघोषमाश्रमं प्राविशद्भुगोः
तेजसा सूर्यसदृशं भृगुं तत्र ददर्श सः
आतिथ्यं भृगुरप्यस्य चक्रे सन्मानपूर्वकम्
उवाच प्राञ्जलिर्भूत्वा विनयान्मुनिपुङ्गवम्
पृच्छामि भवभीतो ऽहं नृणामुद्धारकारणम्
तन्ममाख्याहि सर्वज्ञ अनुग्राह्यो ऽस्मि ते यति
अन्यथा स्वकुलं सर्वं कथमुद्धर्त्तुमर्हसि