ता आपदो ऽपि भूपाल धन्या याः सत्यकारिकाः
कीर्तिसंस्तरणार्थाय कर्त्तव्यं मनुजैः सदा
तदलं परितापेन सत्यं पालय भूपते
देवैरुत्पादिता ह्येषा निकषा ते विमोहिनी
पुत्रव्य पादनाद्देवा भविष्यन्ति ह्यवाङ्मुखाः
विष्णोरुद्वहतां भक्तिं देवताः परिपन्थिनः
विरुद्धा विबुधा भूप सेश्वरास्तव चेष्टितैः
स त्वं भूप दृढो भूत्वा घातयस्व सुतं प्रियम्
मोहिन्याः कुरु वाक्यं तु आत्मनः सत्यपालनात्
तन्तासि लोके शमनस्य भूप यशःप्रणो भविता धरायाम्
संध्यावलीमुवाचेदं मोहिन्याः सन्निधौ नृप
घातयित्वा सुतं लोके का गतिर्म्मे भविष्यति
धर्माङ्गदविनाशाय देवि कालप्रिया त्वियम्
अप्रजं च सुतं हत्वा का गतिर्मे भविष्याति
कुपुत्रस्यापि हननाद्देवि दुःखं भवेत्पितुः
जम्बूद्वीपमिदं भुक्तं मया तु वरवर्णिनि
विष्णोरंशो वरारोहे पितुरप्यधिको भवेत्
यो ऽयमत्यधिकः पुत्रो धर्माङ्गद इति क्षितौ
अहो दुःखमनुप्राप्तं पुत्रादप्यधिकं मया
मोहिनीं मोहसंप्राप्तां मम दुःखप्रदायिनीम्
समीपमागत्य नृपो मोहिनीक्षिदमब्रवीत्
आत्मानं दारयिष्यामि देवीं सन्ध्यावलीं तथा
दुष्टाग्रहमिमं सुभ्रु परित्यज सुतं प्रति
भोजयित्वा दिने विष्णोः को लाभो भविता वद
अन्यं याचस्व सुभगे वरं त्वां शरणं गतः
अन्यत्प्रयोजनं किञ्चित्कर्त्तास्मि वशगस्तव
दुर्लभो गुणवान्पुत्रो दुर्लभो हरिवासरः
दुर्लभं हि कुले जन्म दुर्लभा वंशजा प्रिया
दुर्लभा वैष्णवी दीक्षा दुर्लभः स्मृतिसंग्रहः
दुर्लभो जागरो विष्णोर्दुर्लभा ह्यात्मसत्क्रिया