गृहाण जीवितं विप्र देहि पादोदकं मम
ततस्तु विप्रः प्रोतात्मा तदङ्गीकृत्य चासनम्
प्रक्षाल्य पादौ विप्रस्य विशालाक्षी मुदान्विता
ततस्तु सहसा सुभ्रु दंपती दिव्यरूपिणौ
ततः प्रसन्नो भगवान् देवशल्यं विमोच्य सः
एवं मयापि दातव्यं तव देवि प्रतिश्रुतम्
सत्तयमेव मनुष्याणां गतिदं परिकीर्तितम्
सत्याच्च्चुतं मनुष्यं हि श्वपाकादधमं विदुः
जग्राह भर्तुश्चरणौ सुताम्नौ रक्ताङ्गुली पाणियुगेन सुभ्रूः
उवाच वचनं देवी धर्मां गदविनाशनम्
मोहिन्या मोहरूपाया नान्यत्संरोचते ऽधुना
धर्मत्यागाद्वरं नाथ पुत्रस्य विनिपातनम्
पुत्रस्योत्पादने तीव्रातादृशी न भवेत्पितुः
मातुर्भवति भूपाल तथा नहि भवेत्पितुः
जननी धारिणी क्लिष्टा वर्द्धने पालने ऽधिका
स्नेहाधिक्यं तु संप्रेक्ष्य मातरं महतीं विदुः
पुत्रस्य नृपशार्दूल सत्यवाक्यस्य पालनात्
मा सत्यलङ्घनं कार्षीः शापितो ऽसि मयात्मना
यस्मिंश्चीर्णे रुजा देहे नाल्पापि नृप जायते
प्राणानादाय पुत्रं वा सर्वस्वं वा महीपते
ता आपदो ऽपि भूपाल धन्या याः सत्यकारिकाः
कीर्तिसंस्तरणार्थाय कर्त्तव्यं मनुजैः सदा
तदलं परितापेन सत्यं पालय भूपते
देवैरुत्पादिता ह्येषा निकषा ते विमोहिनी
पुत्रव्य पादनाद्देवा भविष्यन्ति ह्यवाङ्मुखाः
विष्णोरुद्वहतां भक्तिं देवताः परिपन्थिनः
विरुद्धा विबुधा भूप सेश्वरास्तव चेष्टितैः
स त्वं भूप दृढो भूत्वा घातयस्व सुतं प्रियम्
मोहिन्याः कुरु वाक्यं तु आत्मनः सत्यपालनात्
तन्तासि लोके शमनस्य भूप यशःप्रणो भविता धरायाम्