तच्छ्रुत्वा वृद्धविप्रस्य वाक्यं वाक्यविशारदा
यत्ते मनोगतं विप्र तद्दास्यामि गृहाणमे
इत्युक्तः स द्विजः प्राह न प्रत्येमि स्त्रिया वचः
तदाकर्ण्य द्विजेनोक्तं विरोचनगृहेश्वरी
स प्राप्तो दूतवाक्येन प्राह्लादिर्हृष्टमानसः
तमागतं समालोक्य पतिं धर्मपरायणा
यदा तु जगृहे नैव दत्तमासनमादरात्
तद्दृत्तान्तमुपाज्ञाय दैत्यराट् स विरोचनः
अङ्गीकृते तु दैत्येन तद्विज्ञाय च मानसम्
ततस्तु दंपती तत्र मुग्धौ स्वकृतया शुचा
गृहाण जीवितं विप्र देहि पादोदकं मम
ततस्तु विप्रः प्रोतात्मा तदङ्गीकृत्य चासनम्
प्रक्षाल्य पादौ विप्रस्य विशालाक्षी मुदान्विता
ततस्तु सहसा सुभ्रु दंपती दिव्यरूपिणौ
ततः प्रसन्नो भगवान् देवशल्यं विमोच्य सः
एवं मयापि दातव्यं तव देवि प्रतिश्रुतम्
सत्तयमेव मनुष्याणां गतिदं परिकीर्तितम्
सत्याच्च्चुतं मनुष्यं हि श्वपाकादधमं विदुः
जग्राह भर्तुश्चरणौ सुताम्नौ रक्ताङ्गुली पाणियुगेन सुभ्रूः
उवाच वचनं देवी धर्मां गदविनाशनम्
मोहिन्या मोहरूपाया नान्यत्संरोचते ऽधुना
धर्मत्यागाद्वरं नाथ पुत्रस्य विनिपातनम्
पुत्रस्योत्पादने तीव्रातादृशी न भवेत्पितुः
मातुर्भवति भूपाल तथा नहि भवेत्पितुः
जननी धारिणी क्लिष्टा वर्द्धने पालने ऽधिका
स्नेहाधिक्यं तु संप्रेक्ष्य मातरं महतीं विदुः
पुत्रस्य नृपशार्दूल सत्यवाक्यस्य पालनात्
मा सत्यलङ्घनं कार्षीः शापितो ऽसि मयात्मना
यस्मिंश्चीर्णे रुजा देहे नाल्पापि नृप जायते
प्राणानादाय पुत्रं वा सर्वस्वं वा महीपते