एकदा शक्रमुख्यास्ते देवाः समन्त्र्य वाक्पतिम्
तच्छ्रुत्वा वचनं तेषां देवानां गुरुरब्रवीत्
तच्छ्रुत्वा भाषितं तस्य गुरोरमिततेजसः
तत्र गत्वा सुरश्रेष्ठं वैकुण्ठं तुष्टुवुः स्तवैः
भक्तविघ्नविनाशाय वैकुण्ठाय नमो नमः
क्रोडरूपाय मत्स्याय प्रलयाब्धिनिवासिने
रामायाखिलनाथाय विश्वेशाय च साक्षिणे
यज्ञाय धृतधर्माय सनकादिस्वरूपिणे
ऋषभाय विशुद्धाय हयशीर्षभृतात्मने
कृष्णांय वासुदेवाय संकर्षणवपुर्धृते
कुमाराय गणेशाय नन्दिने भृङ्गिणे नमः
जगन्नाथाय नाथाय नमो रामेश्वराय च
नमः कमलनाभाय नमस्ते पङ्कजाङ्घ्रये
कमलाप्रतिपालाय केशवाय नमो नमः
लोकपालस्वरूपाय प्रजापतिवपुर्धृते
जयाय जयिने नेत्रे नियमाय क्रियात्मने
बुद्धाय कल्किरूपाय क्षेत्रज्ञायाक्षराय च
शङ्खिने गदिने चैव नमश्चक्रधराय च
शरण्याय वरेण्याय पराय परमात्मने
पूर्णाय परिसेव्याय परात्परतराय च
मोहिने क्षोभिने कामरूपिणे ऽजाय सूरिणे
तद्विधत्स्वाखिलाधार यथा हि सुखिनो वयम्
तच्छ्रुत्वा स्तवनं तेषां वैकुण्ठः प्रीतमानसः
ते दृष्ट्वा देवदेवेशं वैकुण्ठं स्निग्धमानसम्
तच्छ्रुत्वा शक्रमुख्यानां कार्यं कार्यविदां वरः
गतेषु देववर्गेषु सर्वोपायविदांवरः
द्विजपूजनकाले तु संप्राप्तः कार्यसाधकः
अपूर्वं भक्तिभावेन ददौ सत्कृत्य चासनम्
नाहं समाददे देवि त्वद्दत्तं परमासनम्
यन्मे मनोगतं कार्यं तद्विज्ञाय च मानिनि