धनं त्यजेत्त्यजेद्दाराञ्जीवितं च गृहं त्यजेत्
त्यजेत्तीर्थं त्यजेद्धर्मं त्यजेदत्यन्तसुप्रियम्
तपस्त्यजेत्त्यजेद्विद्यां सिद्धिं मोक्षं त्यजेच्छुभे
इह संबन्धिनः सर्वे पुत्रभ्रातृसुहृत्प्रियाः
द्वादश्यास्तु प्रभावेण सर्वं क्षेमं भविष्यति
विश्वासं कुरु मे वाक्ये सुखिनी भव शोभने
कथयिष्यामि ते भद्रे सावधाना श्रुणुष्व मे
तस्य भार्या विशालाक्षी द्विजपूजनतत्परा
पादोदकं तस्य सुभ्रु भक्त्या पिबति हृष्टधीः
हिरण्यकशिपौ राज्यं शासति ह्युग्रतेजसि
एकदा शक्रमुख्यास्ते देवाः समन्त्र्य वाक्पतिम्
तच्छ्रुत्वा वचनं तेषां देवानां गुरुरब्रवीत्
तच्छ्रुत्वा भाषितं तस्य गुरोरमिततेजसः
तत्र गत्वा सुरश्रेष्ठं वैकुण्ठं तुष्टुवुः स्तवैः
भक्तविघ्नविनाशाय वैकुण्ठाय नमो नमः
क्रोडरूपाय मत्स्याय प्रलयाब्धिनिवासिने
रामायाखिलनाथाय विश्वेशाय च साक्षिणे
यज्ञाय धृतधर्माय सनकादिस्वरूपिणे
ऋषभाय विशुद्धाय हयशीर्षभृतात्मने
कृष्णांय वासुदेवाय संकर्षणवपुर्धृते
कुमाराय गणेशाय नन्दिने भृङ्गिणे नमः
जगन्नाथाय नाथाय नमो रामेश्वराय च
नमः कमलनाभाय नमस्ते पङ्कजाङ्घ्रये
कमलाप्रतिपालाय केशवाय नमो नमः
लोकपालस्वरूपाय प्रजापतिवपुर्धृते
जयाय जयिने नेत्रे नियमाय क्रियात्मने
बुद्धाय कल्किरूपाय क्षेत्रज्ञायाक्षराय च
शङ्खिने गदिने चैव नमश्चक्रधराय च
शरण्याय वरेण्याय पराय परमात्मने
पूर्णाय परिसेव्याय परात्परतराय च